NCERT Solutions for Class 7th Sanskrit: Chapter 1-सुभाषितानि
NCERT Solutions for Class 7th Sanskrit: Chapter 1-सुभाषितानि

Class 7: Sanskrit Chapter 1 solutions. Complete Class 7 Sanskrit Chapter 1 Notes.

NCERT Solutions for Class 7th Sanskrit: Chapter 1-सुभाषितानि

NCERT 7th Sanskrit Chapter 1, class 7 Sanskrit Chapter 1 solutions

प्रश्न: 1.
सर्वान् श्लोकान् सस्वरं गायत- (सब श्लोकों को स्वर सहित गाइए- Recite all the shlokas.)
उत्तराणि:

छात्र स्वयं स्वर सहित गाएँ।

प्रश्न: 2.
यथायोग्यं श्लोकांशान् मेलयत-(श्लोकांशों को यथायोग्य मिलाइए-Match the parts of the shlokas correctly.)

‘क’ – ‘ख’
1. धनधान्यप्रयोगेषु – नासद्भिः किञ्चिदाचरेत्।
2. विस्मयो न हि कर्त्तव्यः – त्यक्तलज्जः सुखी भवेत्।
3. सत्येन धार्यते पृथ्वी – बहुरत्ना वसुन्धरा।
4. सद्भिर्विवादं मैत्रीं च – विद्यायाः संग्रहेषु च।
5. आहारे व्यवहारे च – सत्येन तपते रविः।
उत्तराणि:
‘क’ – ‘ख’
1. धनधान्यप्रयोगेषु – विद्यायाः संग्रहेषु च।
2. विस्मयो न हि कर्त्तव्यः – बहुरत्ना वसुन्धरा।
3. सत्येन धार्यते पृथ्वी – सत्येन तपते रविः।
4. सद्भिर्विवादं मैत्रीं च – नासद्भिः किञ्चिदाचरेत्।
5. आहारे व्यवहारे च – त्यक्तलज्जः सुखी भवेत्।

प्रश्न: 3.
एकपदेन उत्तरत-(एक शब्द में उत्तर दीजिए-Answer in one word.)

(क) पृथिव्यां कति रत्नानि?
(ख) मूढैः कुत्र रत्नसंज्ञा विधीयते?
(ग) पृथिवी केन धार्यते?
(घ) कैः सङ्गतिं कुर्वीत?
(ङ) लोके वशीकृतिः का?
उत्तराणि:
(क) त्रीणि
(ख) पाषाणखण्डेषु
(ग) सत्येन
(घ) सद्भिः
(ङ) क्षमा।

प्रश्न: 4.
रेखाङ्कितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत –
(रेखांकित पदों को आधार बनाकर प्रश्न निर्माण कीजिए–Frame questions based on the underlined words.)

(क) सत्येन वाति वायुः।
(ख) सद्भिः एव सहासीत।
(ग) वसुन्धरा बहुरत्ना भवति।
(घ) विद्यायाः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ।
(ङ) सद्भिः मैत्री कुर्वीत।
उत्तराणि:
(क) केन वाति वायुः?
(ख) कैः एव सहासीत?
(ग) का बहुरत्ना भवति?
(घ) कस्याः संग्रहेषु त्यक्तलज्जः सुखी भवेत् ?
(ङ) सद्भिः किं कां कुर्वीत?

प्रश्न: 5.
प्रश्नानाम् उत्तराणि लिखत-
(प्रश्नों के उत्तर लिखिए-Answer the following questions.)

(क) कुत्र विस्मयः न कर्त्तव्यः?
उत्तराणि:
दाने, तपसि, शौर्ये, विज्ञाने, विनये, नये च विस्मयः न कर्त्तव्यः ।

(ख) पृथिव्यां त्रीणि रत्नानि कानि?
उत्तराणि:

पृथिव्यां जलं, अन्नं सुभाषितम् च त्रीणि रत्नानि सन्ति ।

(ग) त्यक्तलज्जः कुत्र सुखी भवेत्?
उत्तराणि:

धन-धान्य-प्रयोगे, विद्यायाः संग्रहेषु, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।

प्रश्न: 6.
मञ्जूषातः पदानि चित्वा लिङ्गानुसारं लिखत- (मञ्जूषा से शब्दों को चुनकर लिंग के अनुसार लिखिए- Fill in the blanks by choosing suitable gender words from the box)

[ रत्नानि, वसुन्धरा, सत्येन, सुखी, अन्नम्, बह्निः, रविः, पृथ्वी, सङ्गतिम् ]

NCERT Solutions for Class 7 Sanskrit Chapter 1 सुभाषितानि 2
उत्तराणि:

प्रश्न: 7.
अधोलिखितपदेषु धातवः के सन्ति? (नीचे लिखे हुए शब्दों में धातुएँ कौन-कौन सी हैं? What are the roots in given words?)

पदम् – धातुः
करोति – ……………
पश्य – ……………
भवेत् – ……………
तिष्ठति – ……………
उत्तराणि:
पदम् – धातुः
करोति – कृ
पश्य – दृश्
भवेत् – भू
तिष्ठति – स्था

Additional Important Questions and Answers

(1) पद्यांशं पठित्वा अधोदत्तान् प्रश्नान् उत्तरत- (पद्यांश पढ़कर निम्नलिखित प्रश्नों के उत्तर दीजिए- Read the extract and answer the questions that follow.)

सत्येन धार्यते पृथ्वी सत्येन तपते रविः।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम्॥

I. एकपदेन उत्तरत

(i) पृथ्वी कथं धार्यते ?
उत्तराणि:

सत्येन

(ii) कः सत्येन तपते ?
उत्तराणि:

रविः

(iii) सर्वं कस्मिन् प्रतिष्ठितम् ?
उत्तराणि:

सत्ये

II. पूर्णवाक्येन उत्तरत

सत्येन किं किं भवति?
उत्तराणि:

सत्येन पृथ्वी धार्यते, सत्येन रविः तपति, सत्येन एव च वायुः वहति।

III. भाषिककार्यम्-

यथानिर्देशम् रिक्तस्थानानि पूरयत –

(i) सत्येन – अत्र का विभक्ति? – ……………….. (द्वितीया, तृतीया, सप्तमी)
उत्तराणि:

तृतीया

(ii) प्रतिष्ठितम् – अत्र कः धातुः? – ……………….. (तिष्ठ, स्था, प्रति)
उत्तराणि:

स्था

(iii) पर्यायः कः?
(क) वहति – ………………..
(ख) पवनः – ………………..
उत्तराणि:

(क) वाति
(ख) वायुः

(iv) श्लोके किम् अव्ययपदम् अस्ति?
उत्तराणि:

(2) शुद्धस्य कथनस्य समक्षे ‘आम्’ अशुद्धस्य च समक्षे ‘नहि’ लिखत- (शुद्ध कथन के सामने ‘आम्’ और अशुद्ध के सामने ‘नहि’ लिखिए- write आम्’opposite the correct statement and’fe’opposite the incorrect one.)

(i) पृथिव्यां त्रीणि रत्नानि इति मूढाः वदन्ति।
उत्तराणि:
नहि

(ii) क्षमा सर्वं साधयति।
उत्तराणि:
आम्

(iii) सर्वं विज्ञाने प्रतिष्ठितम्।
उत्तराणि:
नहि

(iv) सज्जनैः सह मित्रतां कुर्यात्।
उत्तराणि:
आम्

(v) सद्भिः किंचिद् न आचरेत्।
उत्तराणि:
नहि

(3) अधोदत्तान् शब्दान् परस्परं मेलयत- (निम्नलिखित शब्दों का परस्पर मेल कीजिए- Match the following.)

(क) शब्दार्थाः

‘क’ – ‘ख’
1. पृथ्वी – हस्ते
2. सद्भिः – दुर्जनैः
3. रविः – वहति
4. करे – वसुन्धरा
5. वाति – भानुः
6. लोके – सज्जनैः
7. असद्भिः – संसारे
उत्तराणि:
1. पृथ्वी-वसुन्धरा
2. सद्भिः-सज्जनैः
3. रविः-भानुः
4. करे-हस्ते
5. वाति-वहति
6. लोके-संसारे
7. असद्भिः-दुर्जनैः।

(ख) श्लोकांशा:’

‘क’ – ‘ख’
1. आहारे व्यवहारे च – (i) किं करिष्यति दुर्जनः।
2. विस्मयो न हि कर्त्तव्यो – (ii) बहुरत्ना वसुन्धरा।
3. मूरैः पाषाणखण्डेषु – (iii) त्यक्तलज्जः सुखी भवेत्।
4. शान्तिखड्गः करे यस्य – (iv) नासद्भिः किञ्चिदाचरेत्।
5. सद्भिर्विवाद मैत्री च – (v) रत्नसंज्ञा विधीयते।
उत्तराणि:
1. (iii) त्यक्तलज्जः सुखी भवेत्।
2. (ii) बहुरत्ना वसुन्धरा।
3. (v) रत्नसंज्ञा विधीयते।
4. (i) किं करिष्यति दुर्जनः।
5. (iv) नासद्भिः किञ्चिदाचरेत्।

(4) (क) मञ्जूषायाः सहायतया श्लोकस्य अन्वयं पूरयत- (मञ्जूषा की सहायता से श्लोक का अन्वय पूरा कीजिए- Complete the prose order of the shloka with help of the box.)

दाने तपसि शौर्ये च विज्ञाने विनये नये।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा॥
दाने तपसि ……… विज्ञाने विनये नये………….
… न हि कर्त्तव्यो …………. बहुरत्ना (अस्ति)।।
मञ्जूषा- विस्मयः, च, वसुन्धरा, शौर्ये
उत्तराणि:
शौर्ये, च विस्मयः, वसुन्धरा।

(ख) मञ्जूषायाः सहायतया श्लोकस्य भावार्थं पूरयत- (मञ्जूषा की सहायता से श्लोक का भावार्थ पूरा कीजिए- Complete the central idea of the verse with help of the box.)

‘क्षमावशीकृतिः’ लोके क्षमया किं न साध्यते।
यः जनः ………………. भवति, सर्वे जनाः तस्य ………………….भवन्ति। ……………….. एव सर्वाणि कार्याणि ………………..|
मञ्जूषा- क्षमा, वशे, क्षमाशीलः, साधयति।
उत्तराणि:
क्षमाशीलः, वशे, क्षमा, साधयति।

बहुविकल्पीयप्रश्नाः

(1) रेखाङ्कितपदम् आधृत्य उचितविकल्पेन प्रश्ननिर्माणं कुरुत। (रेखांकित पद के आधार पर उचित विकल्प द्वारा प्रश्न निर्माण कीजिए- On the basis of underlined words frame questions with the appropriate option.)

(i) पृथिव्यां त्रीणि रत्नानि। (कति, का, कानि)
उत्तराणि:
पृथिव्यां कति रत्नानि?

(ii) क्षमा वशीकृतिः लोके। (कुतः, कुत्र, का)
उत्तराणि:
क्षमा कुत्र वशीकृतिः?

(iii) विस्मयः न हि कर्त्तव्यः। (किम्, कः, का)
उत्तराणि:
कः न हि कर्त्तव्यः?

(iv) सर्वं सत्ये प्रतिष्ठितम्। (के, केन, कस्मिन्)
उत्तराणि:
सर्वं कस्मिन् प्रतिष्ठितम्?

(2) प्रदत्तेभ्यः विकल्पेभ्यः उचितं पदं चित्वा श्लोकांशान् पूरयत। (दिए गए विकल्पों से उचित पद चुनकर श्लोकांश पूरे कीजिए। Pick out the appropriate word from the options given and complete the following verses.)

(i) मूढः …………… रत्नसंज्ञा विधीयते। (धनधान्यप्रयोगेषु, पाषाणखण्डेषु, पृथिव्याम्)
उत्तराणि:
पाषाणखण्डेषु

(ii) सद्भिः कुर्वीत …………… । (सुभाषितम्, प्रतिष्ठितम्, सङ्गतिम्)
उत्तराणि:
सङ्गतिम्

(iii) …………… करे यस्य किं करिष्यति दुर्जनः। (क्षमाखड्गः, शान्तिखड्गः, क्षमावशीकृतिः)
उत्तराणि:
शान्तिखड्गः

(iv) सत्येन …………… पृथ्वी। (साध्यते, भवेत्, धार्यते)
उत्तराणि:
धार्यते

NCERT Solutions for Class 7th Sanskrit: Chapter 1: Download PDF

NCERT Solutions for Class 7th Sanskrit: Chapter 1-सुभाषितानि

Download PDF: NCERT Solutions for Class 7th Sanskrit: Chapter 1-सुभाषितानि PDF

Chapterwise NCERT Solutions for Class 7 Sanskrit :


About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More