NCERT Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि

Class 10: Sanskrit (Shemushi) Chapter 6 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 6 Notes. NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि NCERT 10th Sanskrit...

Curriculum NCERT
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit (Shemushi) Chapter 6 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 6 Notes.

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि

NCERT 10th Sanskrit (Shemushi) Chapter 6, class 10 Sanskrit (Shemushi) Chapter 6 solutions

प्रश्न 1.
एकपदेन उत्तरं लिखत-

(क) मनुष्याणां महान् रिपुः कः?
उत्तराणि:
आलस्यं

(ख) गुणी किं वेत्ति?
उत्तराणि:
गुणं

(ग) केषां सम्पत्तौ च विपत्तौ च महताम् एकरूपता?
उत्तराणि:
महताम्

(घ) पशुना अपि कीदृशः गृह्यते?
उत्तराणि:
उदीरितोऽर्थः

(ङ) उदयसमये अस्तसमये च क: रक्तः भवति?
उत्तराणि:
सविता

प्रश्न 2.
अधोलिखितानां प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत-

(क) केन समः बन्धुः नास्ति?
उत्तराणि:
उद्यमेन समः बन्धुः नास्ति।

(ख) वसन्तस्य गुणं क: जानाति?
उत्तराणि:
पिक: वसन्तस्य गुणं जानाति।

(ग) बुद्धयः कीदृश्यः भवन्ति?
उत्तराणि:
परेङ्गितज्ञानफलाः बुद्धयः भवन्ति।

(घ) नराणां प्रथमः शत्रुः कः?
उत्तराणि:
नराणां प्रथमः शत्रुः क्रोधः।

(ङ) सुधियः सख्यं केन सह भवति?
उत्तराणि:
सुधियः सख्यं सुधीभिः सह भवति।

(च) अस्माभिः कीदृशः वृक्षः सेवितव्यः?
उत्तराणि:
अस्माभिः फलच्छायासमन्वितः वृक्षः सेवितव्यः।

प्रश्न 3.
अधोलिखिते अन्वयद्वये रिक्तस्थानपूर्ति कुरुत-

(क) यः ___________ उद्दिश्य प्रकुप्यति तस्य ___________ स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, ___________ तं कथं परितोषयिष्यति?
उत्तराणि:
य: निमित्तम् उद्दिश्य प्रकुप्यति तस्य अपगमे स ध्रुवं प्रसीदति। यस्य मनः अकारणद्वेषि अस्ति, जनः तं कथं परितोषयिष्यति?

(ख) ___________ संसारे खल ___________ निरर्थकम् नास्ति। अश्वः चेत् ___________ वीरः खर: ___________ वहने (वीर:) (भवति)।
उत्तराणि:
विचित्रे
 संसारे खलु किञ्चित् निरर्थकम् नास्ति। अश्वः चेत् धावने वीरः खरः भारस्य वहने (वीरः) भवति।

प्रश्न 4.
अधोलिखितानां वाक्यानां कृते समानार्थकान् श्लोकांशान् पाठात् चित्वा लिखत-

(क) विद्वान् स एव भवति यः अनुक्तम् अपि तथ्यं जानाति।
उत्तराणि:
अनुक्तमप्यूहति पण्डितो जनः।

(ख) मनुष्यः समस्वभावैः जनैः सह मित्रता करोति।
उत्तराणि:
समान-शील-व्यसनेषु सख्यम्।

(ग) परिश्रमं कुर्वाण: नरः कदापि दु:खं न प्राप्नोति।
उत्तराणि:
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति।

(घ) महान्तः जनाः सर्वदैव समप्रकृतयः भवन्ति।
उत्तराणि:
सम्पत्तौ च विपत्तौ च महतामेकरूपता।

प्रश्न 5.
यथानिर्देशं परिवर्तनं विधाय वाक्यानि रचयत-

(क) गुणी गुणं जानाति। (बहुवचने)
उत्तराणि:
गुणिनः गुणान् गुणानि जानन्ति।

(ख) पशुः उदीरितम् अर्थं गृह्णाति। (कर्मवाच्ये)
उत्तराणि:
पशुना उदीरितः अर्थः गृहयते।

(ग) मृगाः मृगैः सह अनुब्रजन्ति। (एकवचने)
उत्तराणि:
मृगः मृगेण सह अनुव्रजति।

(घ) कः छायां निवारयति। (कर्मवाच्ये)
उत्तराणि:
केन छाया निर्वायते।

(ङ) तेन एव वह्निनां शरीरं दह्यते। (कर्तृवाच्ये)
उत्तराणि:
एषः एव अग्नि शरीर दहति।

प्रश्न 6(अ).
सन्धि / सन्धिविच्छेदं कुरुत-

(क) न + अस्ति + उद्यमसम: – ___________
उत्तराणि:
नास्त्युद्यमसमः

(ख) ___________ + ___________ – तस्यापगमे
उत्तराणि:
तस्य + अपगमे

(ग) अनुक्तम् + अपि + ऊहति – ___________
उत्तराणि:
अनुक्तमप्यूहति

(घ) ___________ + ___________ – गावश्च
उत्तराणि:
गावः + च

(ङ) ___________ + ___________ – नास्ति
उत्तराणि:
न + अस्ति

(च) रक्तः + च + अस्तमये – ___________
उत्तराणि:
रक्तश्चास्तमये

(छ) ___________ + ___________ – योजकस्तत्र
उत्तराणि:
योजक: + तत्र

NCERT 10th Sanskrit (Shemushi) Chapter 6, class 10 Sanskrit (Shemushi) Chapter 6 solutions

प्रश्न 6(आ).
समस्तपदं/विग्रहं लिखत-

(क) उद्यमसमः – ___________
(ख) शरीरे स्थितः – ___________
(ग) निर्बल: – ___________
(घ) देहस्य विनाशाय – ___________
(ङ) महावृक्षः – ___________
(च) समानं शीले व्वसनं येषां तेषु – ___________
(छ) अयोग्यः – ___________
उत्तराणि:
(क) उद्यमेन समः
(ख) शरीरस्थितः
(ग) निर्गतम् बलम् यस्मात् सः
(घ) देहविनाशाय
(ङ) महान् वृक्षः
(च) समानशील व्यसनेषु
(छ) न योग्य:

प्रश्न 7(अ).
अधोलिखितानां पदानां विलोमपदानि पाठात चित्वा लिखत-

(क) प्रसीदति – ___________
(ख) मूर्खः – ___________
(ग) बली – ___________
(घ) सुलभः – ___________
(ङ) संपत्ती – ___________
(च) अस्तमये – ___________
(छ) सार्थकम् – ___________
उत्तराणि:
(क) अवसीदति
(ख) पण्डितः
(ग) निर्बलः
(घ) दुर्लभः
(ङ) विपत्ती
(छ) निरर्थकम्

प्रश्न 7(आ).
संस्कृतेन वाक्यप्रयोगं कुरुत-


उत्तराणि:
(क) कौआ – वायसः कृष्णवर्णः भवति।
(ख) कारण – त्वं किं निमित्तं दृष्ट्वा अत्र तिष्ठसि?
(ग) सूर्य – सूर्यः पूर्व दिशायाम् उदयति।
(घ) कोयल – पिकः मधुरं कूजति।
(ङ) आग – तत्र सुदीप्तः वह्निः प्रज्वलति।

परियोजनाकार्यम-
(क) उद्यमस्य महत्वं वर्णयतः पञ्चश्लोकान् लिखत।
अथवा
कापि कथा या भवद्भिः पठिता स्यात् यस्याम् उद्यमस्य महत्वं वर्णितम् ता स्वभाषया लिखत।
(ख) निमित्तमुद्दिश्य यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति। यदि भवता कदापि ईदृशः अनुभवः कृतः तर्हि स्वभाषया लिखत।
विद्यार्थी स्वयं करें।

योग्यताविस्तारः
संस्कृत कृतियों के जिन पद्यों या पद्यांशों में सार्वभौम सत्य को बड़े मार्मिक ढंग से प्रस्तुत किया गया है। उन पद्यों को सुभाषित कहते हैं यह पाठ ऐसे दस सुभाषितों का संग्रह है जो संस्कृत के विभिन्न ग्रंथों से संकलित हैं। इनमें परिश्रम का महत्त्व, क्रोध का दुष्प्रभाव, सभी वस्तुओं की उपादेयता और बुद्धि की विशेषता आदि विषयों पर प्रकाश डाला गया है।

1. तत्पुरुष समास

  • शरीरस्थः – शरीरे स्थितः
  • गृहस्थः – गृहे स्थितः
  • मनस्स्थः – मनसि स्थितः
  • तटस्थः – तटे स्थितः
  • कूपस्थः – कूपे स्थितः
  • वृक्षस्थः – वृक्षे स्थितः
  • विमानस्थः – विमाने स्थितः

2. अव्ययीभाव समास

  • निर्गुणम् – गुणानाम् अभावः
  • निर्मक्षिकम् – मक्षिकाणाम् अभावः
  • निर्जलम् – जलस्य अभाव:
  • निराहारम् – आहारस्य अभाव:

3. पर्यायवाचिपदानि

  • शत्रुः – रिपुः, अरिः, वैरिः
  • मित्रम् – सखा, बन्धुः, सुहृद्
  • वह्निः – अग्निः, दाहकः, पावकः
  • सुधियः – विद्वांसः, विज्ञाः, अभिज्ञाः
  • अश्वः – तुरगः, हयः, घोटक:
  • गजः – करी, हस्ती, दन्ती, नागः
  • वक्षः – द्रुमः, तरुः, महीरुहः, विटपः, पादपः
  • सविता – सूर्यः मित्र: दिवाकरः, भास्करः

मन्त्रः ‘मननात् त्रायते इति मन्त्रः।’
अर्थात् वे शब्द जो सोच-विचार कर बोले जाएँ। सलाह लेना, मन्त्रणा करना। मन्त्र + अच् (किसी भी देवता को सम्बोधित) वैदिक सूक्त या प्रार्थनापरक वैदिक मन्त्र, वेद का पाठ तीन प्रकार का है-यदि छन्दोबद्ध और उच्च स्वर से बोला जाने वाला है तो ‘ऋक् ‘ है, यदि गद्यमय और मन्दस्वर में बोला जाने वाला है तो यजुस्’ है, और यदि छन्दोबद्धता के साथ गेयता है तो ‘सामन्’ है (प्रार्थनापरक) यजुस् जो किसी देवता को उद्दिष्ट करके बोला गया हो-‘ॐ नमः शिवाय’ आदि। पंचतंत्र में भी मंत्रणा, परामर्श, उपदेश तथा गुप्त मंत्रणा के अर्थ में इस शब्द का प्रयोग हुआ है।

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6

Additional Important Questions and Answers

अतिरिक्त प्रश्नाः

1. अधोलिखितं पद्यांशं पठित्वा निर्देशानुसार प्रश्नान् उत्तरत-

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. अस्माकं महान् रिपुः कः अस्ति?
  2. आलस्यं कुत्र स्थितः अस्ति?
  3. आलस्यं कृत्वा क; अवसीदति?

उत्तराणि:

  1. आलस्यम्
  2. शरीरे
  3. मनुष्यः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवल प्रश्नमेकमेव)-

  1. किं कृत्वा मनुष्यः न अवसीदति?
  2. कः मनुष्याणां बन्धुसमः अस्ति?

उत्तराणि:

  1. उद्यमं कृत्वा मनुष्यः न अवसीदति।
  2. उद्यमः मनुष्याणां बन्धुसमः अस्ति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘महान् रिपुः’ अनयोः पदयोः विशेषणपदं किम्?
  2. ‘नावसीदति’ इति क्रियापदस्य कर्तृपदम् किम्?
  3. ‘उद्यमम्’ इति पदस्य विपर्ययदं पद्यांशे किमस्ति?
  4. श्लोके ‘शत्रुः’ इत्यस्य पदस्य कः पर्यायः आगतः?

उत्तराणि:

  1. महान्
  2. मनुष्यः
  3. आलस्यं
  4. रिपुः

(ख) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कीदृशः जनः गुणं जानाति?
  2. कीदृशः जनः गुणं न जानाति?
  3. करी कस्य बलं जानाति?

उत्तराणि:

  1. गुणी
  2. निर्गुणः
  3. सिंहस्य

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. पिकः किम् जानाति वायसः च किम् न?
  2. मूषकः कस्य बलं न जानाति?

उत्तराणि:

  1. पिक: वसन्तस्य गुणं जानाति वायसः च वसन्तस्य गुणं न जानाति।
  2. मूषकः सिंहस्य बलं न जानाति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. श्लोके ‘जानाति’ इति पदस्य पर्यायपदं किम् आगतम्?
  2. ‘वेत्ति’ इति क्रियापदस्य कर्तृपदं श्लोके किम्?
  3. ‘गजः’ इत्यर्थे किं पदं पद्यांशे प्रयुक्तम्?
  4. श्लोके ‘दुर्गुणम्’ इत्यस्य पदस्य कः विपर्ययः लिखितः?

उत्तराणि:

  1. वेत्ति
  2. गुणी
  3. करी
  4. गुणम्

(ग) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. नरः किम् उद्दिश्य प्रकुप्यति?
  2. नरः कदा प्रसीदति?
  3. कदाचित् अकारणद्वेषि किं भवति?

उत्तराणि:

  1. निमित्तम्
  2. तस्यापगमे (निमित्तापगमे)
  3. मनः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. यस्य मनुष्यस्य मनः अकारणद्वेषि अस्ति किं सः कदापि परितोषयिष्यति?
  2. कः निमित्तम् उद्दिश्य प्रकुप्यति?

उत्तराणि:

  1. यस्य मनुष्यस्य मनः अकारणदेषि अस्ति तं जनः कदापि न परितोषयिष्यति।
  2. जनः निमित्तमुदिश्य प्रकुप्यति?

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘यः’ पदं पद्यांशे कस्मै प्रयुक्तम्?
  2. श्लोके ‘प्रकुप्यति’ इति क्रिया पदस्य कर्तृपदं किम्?
  3. ‘सः’ इति कर्तृपदस्य क्रियापदं किम्?
  4. श्लोके ‘कारणम्’ इत्यस्य पदस्य कः पर्यायः आगतः?

उत्तराणि:

  1. नराय
  2. यः
  3. प्रसीदति
  4. निमित्तम्

(घ) उदीरितोऽर्थः पशुनापि गृह्यते,
ह्याश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. उदीरितोऽर्थः केनापि गृह्यते?
  2. केऽपि वहन्ति बोधिताः?
  3. पण्डितः जनः किमपि ऊहति?

उत्तराणि:

  1. पशुना
  2. नागा:/हयाः
  3. अनुक्तम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. बुद्धयः कीदृश्यः भवन्ति?
  2. पशुनापि कः गृह्यते?

उत्तराणि:

  1. बुद्धयः परेङ्गितज्ञानफलाः हि भवन्ति।
  2. पशुनापि उदीरितोऽर्थः गृह्यते।

प्रश्न 3.
भाषिक कार्यम् (केवलं प्रश्नत्रयमेव)-

  1. अत्र श्लोके ‘गृह्यते’ क्रियापदस्य कर्तृपदं किम्?
  2. ‘विद्वान् जनः’ इत्यर्थे किं पदं प्रयुक्तम्?
  3. ‘अश्वाः’ इति पदस्य पर्यायपदं पद्यांशे किम्?
  4. श्लोके ‘मुच्यते’ इति क्रियापदस्य क: विपर्ययः?

उत्तराणि:

  1. अर्थः
  2. पण्डितो जनः
  3. हयाः
  4. गृह्यते

(ङ) क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वह्निः,
स एव वह्निर्दहते शरीरम्॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. नराणां प्रथमः शत्रुः कः?
  2. क्रोधः केषाम् प्रथमः शुत्रः?
  3. क्रोधः किमर्थं भवति?

उत्तराणि:

  1. क्रोधः
  2. नराणाम्
  3. देहविनाशनाय

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. कीदृशो अग्निः शरीराणि दहति?
  2. शरीरं कः दहते?

उत्तराणि:

  1. क्रोधरूपाग्निः शरीराणि दहति।
  2. शरीरं क्रोधः दहते।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘प्रथमः शत्रुः’ अनयो:पदयोः विशेषणपदं किम्?
  2. ‘दहते’ इति क्रियापदस्य कर्ता कः?
  3. ‘रक्षणाय’ इति पदस्य विपर्ययपदं किम्?
  4. श्लोके ‘अग्निः’ इति पदस्य कः पर्याय आगनः?

उत्तराणि:

  1. प्रथमः
  2. वह्निः
  3. विनाशनाय
  4. वह्निः

(च) मृगाः मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरङ्गः।
मूर्खाश्च मूर्खः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम्॥

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 6

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. मृगाः कैः सङ्गमनुव्रजन्ति?
  2. मूखैः सह के अनुव्रजन्ति?
  3. तुरगाः कैः सह अनुव्रजन्ति?

उत्तराणि:

  1. मृगैः
  2. मूर्खाः
  3. तुरङ्गैः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. किम् समान-शील-व्यसनेषु भवति?
  2. सुधीभिः सह के अनुगच्छन्ति?

उत्तराणि:

  1. सख्यम् समान-शील-व्यसनेषु भवति?
  2. सुधीभिः सह सुधियः अनुगच्छन्ति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. अनुव्रजन्ति’ इति क्रियापदस्य कर्तृपदं किम्?
  2. ‘तुरगा’ इति कर्तृपदस्य क्रियापदं किम्?
  3. ‘सुधीभिः’ इति पदस्य विपर्ययपदं कि प्रयुक्तम्?
  4. ‘अश्वाः’ इति पदस्य कः पर्यायः श्लोके आगतः?

उत्तराणि:

  1. मृगाः
  2. अनुव्रजन्ति
  3. मूखैः
  4. तुरगाः

(छ) सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. कीदृशः वृक्षः सेवितव्यः?
  2. महावृक्षः कीदृशः भवति?
  3. वृक्षेषु का भवति?

उत्तराणि:

  1. महावृक्षः
  2. फलच्छायासमन्वितः
  3. छाया

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. महावृक्षेषु दैवात् फलं नास्ति तथापि किं न निवार्यते?
  2. फलच्छायासमन्वितः कः सेवितव्यः?

उत्तराणि:

  1. महावृक्षेषु दैवात् फलं नास्ति तथापि छाया केनापि न निवार्यते।
  2. फलच्छायासमन्वितः महावृक्षः सेवितव्यः।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘महान् वृक्षः’ अत्र विशेष्यपदं किम्?
  2. ‘भाग्यवशात्’ इत्यर्थे किं पदं प्रयुक्तम्?
  3. ‘लघुवृक्षः’ इति पदस्य विपर्ययपदं किं प्रयुक्तम्?
  4. ‘छाया केन निवार्यते’ अत्र कर्तृपदं किम्?

उत्तराणि:

  1. वृक्षः
  2. दैवात्
  3. महावृक्षः
  4. केन

(ज) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः।।

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. अक्षरं कीदृशं न भवति?
  2. मूलम् कीदृशम् न भवति?
  3. संसारे कः दुर्लभो भवति?

उत्तराणि:

  1. मन्त्ररहितम्
  2. अनौषधम्
  3. योजक:

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. कीदृशः पुरुषः वास्तविकः पुरुषः न भवति?
  2. अमन्त्रं किं न भवति?

उत्तराणि:

  1. अयोग्यः पुरुषः वास्तविकः पुरुषः न भवति।
  2. अमन्त्रम् अक्षरं न भवति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘अमन्त्रं अक्षरं’ अनयोः पदयोः विशेषणपदं किम्?
  2. ‘अयोग्यः’ इति पदस्य विशेष्यपदं किम्?
  3. ‘सुलभः’ इति पदस्य विपर्ययपदं पद्यांशे किमस्ति?
  4. ‘नास्ति मूलम् अनौषधम्’। अत्र क्रियापदं किम्?

उत्तराणि:

  1. अमन्त्रं
  2. पुरुषः
  3. दुर्लभ:
  4. नास्ति

(झ) संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तोश्चास्तमये तथा॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. उदये सति सूर्यः कीदृशः भवति?
  2. अस्तमये च सवितुः वर्णः कीदृशः भवति?
  3. केषाम् एकरूपता भवति?

उत्तराणि:

  1. रक्तः
  2. रक्तः
  3. महताम्

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. महताम् एकरूपता कदा भवति?
  2. उदये अस्तमये च सविता कीदृशो भवति?

उत्तराणि:

  1. महताम् संपत्तौ विपत्तौ च एकरूपता भवति।
  2. उदये अस्तमये च सविता रक्तः भवति।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘संपत्तौ’ पदस्य विपर्ययपदं पद्यांशे किमस्ति?
  2. ‘सूर्य:’ पदस्य पर्यायपदं किम्?
  3. ‘भवति’ इति क्रियापदस्य कर्तृपदं किम्?
  4. श्लोके ‘सविता रक्तः’ अनयोः पदयोः किं विशेषणम्?

उत्तराणि:

  1. विपत्तौ
  2. सविता
  3. सविता
  4. रक्तः

(ज) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावते वीरः भारस्य वहने खरः॥

प्रश्न 1.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)-

  1. संसारः कीदृशः अस्ति?
  2. निरर्थकम् कुत्र न अस्ति?
  3. भारवहने कः वीरः भवति?

उत्तराणि:

  1. विचित्रः
  2. संसारे
  3. खरः

प्रश्न 2.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नमेकमेव)-

  1. अश्वः खरः च कीदृशौ वीरौ स्त:?
  2. विचित्रः खलु को वर्तते?

उत्तराणि:

  1. अश्वः चेत् धावने वीरः तर्हि भारस्य वहने खर: वीरः अस्ति।
  2. विचित्रः खलु संसारः वर्तते।

प्रश्न 3.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)-

  1. ‘संसारे’ इति पदस्य विशेषणपदं किम्?
  2. ‘सार्थकम्’ इति पदस्य विपर्ययपदं किमस्ति?
  3. ‘नास्ति’ इति क्रियापदस्य कर्तृपदं किम्?
  4. श्लोके ‘गर्दभः’ इत्यस्य पदस्य कः पर्यायः आगतः?

उत्तराणि:

  1. विचित्रे
  2. निरर्थकम्
  3. किञ्चित्
  4. खरः

2. (अ) प्रश्न निर्माणम् कुरुत-

(क) आलस्यं मनुष्याणाम् शत्रुः।
उत्तराणि:
केषाम्

(ख) आलस्यं मनुष्याणां शरीरस्थो महान् रिपुः।
उत्तराणि:
किम्

(ग) उद्यतेनसमः बन्धु नास्ति।
उत्तराणि:
केन

(घ) नरः उद्यतं कृत्वा न अवसीदति।
उत्तराणि:
किम्

(ङ) आलस्यं मनुष्याणां शरीरस्थो महान् रिपुः।
उत्तराणि:
कीदृशः

(च) बलवान् बलम् वेत्ति?
उत्तराणि:
कः

(छ) वसन्तस्य गुणः पिक: जानाति।
उत्तराणि:
कः

(ज) निर्गुण: गुणं न वेत्ति।
उत्तराणि:
कः

(झ) मृगाः मृगैः सङ्गमनुव्रजन्ति।
उत्तराणि:
के

(ञ) गावः गोभिः सङ्गमनुव्रजन्ति।
उत्तराणि:
काभिः

(ट) नराणां प्रथमः शुत्रः क्रोधः अस्ति।
उत्तराणि:
केषाम्

(ठ) फलच्छायासमन्वितः महावृक्षः सेवितव्यः।
उत्तराणि:
कीदृशः

(ड) संपत्तौ विपत्तौ च महताम् एकरूपता भवति।
उत्तराणि:
केषाम्

(ढ) सविता उदयेसति रक्तः भवति।
उत्तराणि:
कदा

(ण) एषः संसारः विचित्रः अस्ति।
उत्तराणि:
कीदृशः

(त) अत्र किञ्चिन्निरर्थकम् न अस्ति।
उत्तराणि:
कीदृशम्

(आ) उचित पदं चित्वा प्रश्ननिर्माणं कुरुत-

(क) अस्तमये सविता रक्तः भवति।
(i) के
(ii) कदा
(ii) कस्मै
(iv) कुत्र
उत्तराणि:
(ii) कदा

(ख) वायसः वसन्तस्य गुणं न जानाति।
(i) क:
(ii) कस्य
(iii) केन
(iv) कदा
उत्तराणि:
(ii) कस्य

(ग) यः निमित्तम् उद्दिश्य प्रकुप्यति।
(i) किम्
(ii) क:
(iii) कथम्
(iv) केन
उत्तराणि:
(i) किम्

(घ) क्रोधः देहविनाशनाय प्रथमः शत्रुः।
(i) क:
(ii) कस्मै
(iii) कस्य
(iv) काय
उत्तराणि:
(ii) कस्मै

(ङ) गुणी गुणं वेत्ति।
(i) क:
(ii) की
(iii) का
(iv) के
उत्तराणि:
(i) कः

(च) महत्ताम् एकरूपता संपत्तौ विपत्तौ च भवति।
(i) कदा
(ii) कुत्र
(iii) को
(iv) के
उत्तराणि:
(i) कदा

(छ) फलच्छायासमन्वितः महा वृक्षः सेवितव्यः।
(i) का
(ii) कीदृशः
(iii) कया
(iv) कः
उत्तराणि:
(ii) कीदृशः

(ज) मूर्खा मूखैः सह अनुव्रजन्ति।
(i) केन
(ii) कैः
(iii) के
(iv) कदा
उत्तराणि:
(ii) कैः

(झ) पशुना अपि उदीरितः अर्थः गृह्यते।
(i) कै:
(ii) केन
(iii) काभिः
(iv) कया
उत्तराणि:
(ii) केन

(ञ) सिंहस्य बलं गजः वेत्ति मूषकः न।
(i) कस्य
(ii) कः
(iii) किम्
(iv) कस्याः
उत्तराणि:
(i) कस्य

(ट) संसारे किञ्चित् निरर्थकम् न अस्ति।
(i) के
(ii) कुत्र
(iii) कस्मै
(iv) किम्
उत्तराणि:
(ii) कुत्र

(ठ) क्रोध: नरस्य प्रथमः शत्रुः।
(i) कीदृशः
(ii) कीदृशम्
(iii) कः
(iv) के
उत्तराणि:
(i) कीदृशः

(ड) अक्षरं अमन्त्रम् नस्ति।
(i) कीदृशम्:
(ii) कीदृशः
(iii) किम्
(iv) कम्
उत्तराणि:
(i) कीदृशम्

(ढ) महावृक्षस्य छाया केन निवार्यते।
(i) का
(ii) कः
(iii) किम्
(iv) कीदृशः
उत्तराणि:
(i) का

3. अन्वयं लेखनम्-

श्लोकस्य अन्वयं मञ्जूषायाः सहायता पूरयन्तु-

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

अव्ययः
मनुष्याणां (i) ________ महान् शत्रु: (ii) ________ उद्यमसम: (iii) ________ न अस्ति यं (iv) ________ (मनुष्यः) न अवसीदति।
मञ्जूषा- कृत्वा, शरीरस्थः, बन्धुः, आलस्यम्
उत्तराणि:
(i) शरीरस्थः
(ii) आलस्यम्
(iii) बन्धुः
(iv) कृत्वा

(ख) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

अव्ययः
गुणी गुणं (i) ________ निर्गुणः (गुणं) न वेत्ति, (ii) ________ बलं वेत्ति, (iii) ________ (बल) न वेत्ति, वसन्तस्य गुणं पिकः (वेत्ति), (iv) ________ न (वेत्ति), सिंहस्य बलं करी (वेत्ति) (v) ________ न।
मञ्जूषा- वायसः, वेत्ति, मूषकः, बली, निर्बलः
उत्तराणि:
(i) वेत्ति
(ii) बली
(iii) निर्बलः
(iv) वायसः
(v) मूषकः

(ग) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

अव्ययः
यः निमित्तम् (i) ________ प्रकुप्यति सः तस्य (ii) ________ ध्रुवं प्रसीदति यस्य (iii) ________ अकारणद्वेषि (अस्ति) जनः तं (iv) ________ परितोषयिष्यति।
मञ्जूषा- अपगमे, कथम्, मनः, उद्दिश्य
उत्तराणि:
(i) उद्दिश्य
(ii) अपगमे
(iii) मनः
(iv) कथम्

(घ) उदीरितोऽर्थः पशुनापि गृह्यते,
हृयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेङ्गितज्ञानफला हि बुद्धयः॥

अन्वयः
पशुना अपि (i) ________ अर्थः गृह्यते, (ii) ________ नागाः च बोधिताः (भार) (iii) ________ पण्डितः जनः (iv) ________ अपि ऊहति (v) ________ परेङ्गितज्ञानफलाः भवन्ति।
मञ्जूषा- वहन्ति, बुद्धयः, उदीरितः, अनुक्तम्, हयाः
उत्तराणि:
(i) उदीरितः
(ii) हयाः
(iii) वहन्ति
(iv) अनुक्तम्
(v) बुद्धयः

(ङ) क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वाह्निः,
स एव वह्निर्दहते शरीरम्।।

अन्वयः
नराणां देहविनाशनाय (i) ________ शत्रुः देहस्थितः (ii) ________। यथा काष्ठगतः स्थितः (iii) ________ काष्ठम् एव (iv) ________ (तथैव शरीरस्थः क्रोध:) शरीरं दहते।
मञ्जूषा- वह्निः, प्रथमः, दहते, क्रोधः
उत्तराणि:
(i) प्रथमः
(ii) क्रोधः
(iii) वह्निः
(iv) दहते

(च) मृगाः मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरः।
मूर्खाश्च मूखैः सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम्॥

अन्वयः
मृगाः (i) ________ सह, गावश्च गोभिः सह, (ii) ________ तुरङ्गः सह, मूर्खाः मूर्ख (iii) ________ सुधियः सुधीभिः सह (iv) ________ समान (v) ________ व्यसनेषु सख्यम् (भवति)।
मञ्जूषा- सह, मृगैः, शील, तुरगाः, अनुव्रजन्ति
उत्तराणि:
(i) मृगैः
(ii) तुरगाः
(iii) सह
(iv) अनुव्रजन्ति
(v) शील

(छ) सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते॥

अन्वयः
फलच्छाया समन्वितः (i) ________ सेवितव्यः (ii) ________ यदि फलं (iii) ________ (वृक्षस्य) (iv) ________ केन निवार्यते।
मञ्जूषा- छाया, महावृक्षः, नास्ति, दैवात्।
उत्तराणि:
(i) महावृक्षः
(ii) दैवात्
(iii) नास्ति
(iv) छाया

(ज) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषमम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः॥

अन्वय:
अमन्त्रम (i) ________ नास्ति (ii) ________ मूलं नास्ति, (iii) ________ पुरुषः नास्ति, तत्र (iv) ________ दुर्लभः।
मञ्जूषा- अयोग्यः, अनौषधम्, योजकः, अक्षरं
उत्तराणि:
(i) अक्षरं
(ii) अनौषधम्
(iii) अयोग्य:
(iv) योजक:

(झ) संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तोश्चास्तमये तथा।।

अन्वयः
महताम् (i) ________ विपत्तौ च (ii) ________ भवति (यथा) (iii) ________ उदये (iv) ________ भवति, तथा (v) ________ च रक्तः भवति।
मञ्जूषा- अस्तमये, संपत्तौ, सविता, एकरूपता, रक्तः
उत्तराणि:
(i) संपत्तौ
(ii) एकरूपता
(iii) सविता
(iv) रक्तः
(v) अस्तमये

(ज) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥

अन्वयः
विचित्रे (i) ________ खलु किञ्चित् (ii) ________ नास्ति। अश्वः चेत् (iii) ________ वीरः (तर्हि) भारस्य वहने (iv) ________ (वीरः) अस्ति।
मञ्जूषा- निरर्थकं, खरः, धावने, संसारे
उत्तराणि:
(i) संसारे
(ii) निरर्थकं
(iii) धावने
(iv) खरः

4. भावार्थलेखनम्-

श्लोकानाम् भावं उचितैः शब्दैः सम्पूरयत-

(क) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।
नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति॥

भावार्थ:
अस्य भावोऽस्ति यत् (i) ________ शरीरे स्थितम् (ii) ________ एव तेषां। महान् शत्रुः अस्ति। एवमेव पुरुषार्थस्य इव तेषां कोऽपि अन्यः (iii) ________ नास्ति। तं (पुरुषार्थ) कृत्वा (iv) ________ कदापि न दुखीयन्ति।
मञ्जूषा- मानवाः, मानवानां, शत्रुः, आलस्यम्
उत्तराणि:
(i) मानवानां
(ii) आलस्यम्
(iii) शत्रुः
(iv) मानवाः

(ख) गुणी गुणं वेत्ति न वेत्ति निर्गुणो,
बली बलं वेत्ति न वेत्ति निर्बलः।
पिको वसन्तस्य गुणं न वायसः,
करी च सिंहस्य बलं न मूषकः॥

भावार्थ:
संसारे गुणवान् जनः एव (i) ________ महत्वं जानाति, गुणैः हीनः जनः न जानाति, (ii) ________ एवं बलस्य महत्वं जानाति बलहीनः न जानाति। (iii) ________ महत्वं कोकिलः एवं जानाति काकः न एवमेव सिंहस्य बलं तु गज एव जानाति (iv) ________ तु कदापि न जानाति।
मञ्जूषा- बलवान्, मूषकः, गुणस्य, वसन्तस्य
उत्तराणि:
(i) गुणस्य
(ii) बलवान्
(iii) वसन्तस्य
(iv) मूषक:

(ग) निमित्तमुद्दिश्य हि यः प्रकुप्यति,
ध्रुवं स तस्यापगमे प्रसीदति।
अकारणद्वेषि मनस्तु यस्य वै,
कथं जनस्तं परितोषयिष्यति॥

भावार्थ:
यः जनः कदाचित् किञ्चित् (i) ________ उद्दिश्य कस्मैचिदपि क्रुध्यति स एव तस्य कारणस्य (ii) ________ जने प्रसीदति। एवमेव यस्य जनस्य (iii) ________ अकारणमेव केनचित् सह द्वेषं करोति तं जनं कथं (iv) ________कर्तुं समर्थाः भविष्यन्ति जनाः।
मञ्जूषा- तस्मिन्, मनः, कारणम्, सन्तुष्टम्
उत्तराणि:
(i) कारणम्
(ii) तस्मिन्
(iii) मनः
(iv) सन्तुष्टम्

(घ) उदीरितोऽर्थः पशुनापि गृह्यते,
हयाश्च नागाश्च वहन्ति बोधिताः।
अनुक्तमप्यूहति पण्डितो जनः,
परेगितज्ञानफला हि बुद्धयः॥

भावार्थ:
अस्य श्लोकस्य भावोऽस्ति यत् अश्वाः गजाश्च (i) ________ अपि कृतं संकेतं ज्ञात्वा (ii) ________ वहन्ति। तथैव विद्वान् जनः अकथितम् (iii) ________ ज्ञात्वा कार्य कुर्वन्ति यतः बुद्धयः परैः संकेतात् उत्पन्नाः (iv) ________ भवन्ति।
मञ्जूषा- फलदायिकाः, अन्यैः, भार, संकेतम्
उत्तराणि:
(i) अन्यैः
(ii) भारं
(iii) संकेतम्
(iv) फलदायिकाः

(ङ) क्रोधो हि शत्रुः प्रथमो नराणां,
देहस्थितो देहविनाशनाय।
यथास्थितः काष्ठगतो हि वाह्निः,
स एव वह्निर्दहते शरीरम्॥

भावार्थ:
अर्थात् मनुष्याणां शरीरेषु स्थितः (i) ________ एव तेषां देहानाम् विनाशस्य प्रथमः (ii) ________ अस्ति। यथा काष्ठेषु स्थितः अग्निः तमेव (iii) ________ तथैव क्रोधरूपाग्निः अपि (iv) ________ शरीराणि दहति।
मञ्जूषा- शत्रुः, जनानाम्, क्रोधः, दहति
उत्तराणि:
(i) शत्रुः
(ii) क्रोधः
(iii) दहति
(iv) जनानाम्

(च) मृगाः मृगैः सङ्गमनुव्रजन्ति,
गावश्च गोभिः तुरगास्तुरः।
मूर्खाश्च मूर्खे: सुधियः सुधीभिः,
समान-शील-व्यसनेषु सख्यम्॥

भावार्थ:
अस्य श्लोकस्य भावोऽस्ति यत् संसारे सर्वे जीवाः समान: (i) ________ स्वभावयुक्तैः जीवैः सह मैत्रीं कुर्वन्ति। यथा मृगाः (ii) ________ सह गावः गोभिः सह अश्वाः (iii) ________ सह, मूर्खा, मूर्ख सह, विद्वांस (iv) ________ एव अनुगच्छन्ति।
मञ्जूषा- विद्वद्भिः, मृगैः, व्यवहारः, अश्वैः
उत्तराणि:
(i) व्यवहार:
(ii) मृगैः
(iii) अश्वैः
(iv) विद्वद्भिः

(छ) सेवितव्यो महावृक्षः फलच्छायासमन्वितः।
यदि दैवात् फलं नास्ति छाया केन निवार्यते॥

भावार्थ:
संसारे सदैव फलैः छायया च (i) ________ महान् वृक्षः (ii) ________ भवति। यदि दुर्भाग्यवशात् तस्मिन् (iii) ________ नापि भवेयुः तथापि तं (iv) ________ दातुं कश्चिदपि रोडुं न शक्नोति।
मञ्जूषा- छायां, आश्रयितव्यः, युक्तः, फलानि
उत्तराणि:
(i) युक्तः
(ii) आश्रयितव्यः
(iii) छायां
(iv) फलानि

(ज) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम्।
अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः॥

भावार्थ:
अस्मिन् संसारे किञ्चिद् (i) ________ ज्ञानम् (अक्षरम्) न भवति। एवमेव औषधि गुण रहितं वृक्षाणां (ii) ________ अपि न भवति। योग्यता रहितः जनः (iii) ________ न कथ्यतेः तेषां सर्वेषां गुणैः सह (iv) ________ संसारे अतीव दुर्लभोभवति।
मञ्जूषा- मूलम्, योजकः, अमन्त्रम्, पुरुषः
उत्तराणि:
(i) अमन्त्रम्
(ii) मूलम्
(ii) पुरुषः
(iv) योजक:

(झ) संपत्तौ च विपत्तौ च महतामेकरूपता।
उदये सविता रक्तो रक्तोश्चास्तमये तथा॥

भावार्थः
अस्य भावोऽस्ति यत् यथा सूर्यः (i) ________ समये रक्तः भवति तथैव सः अस्ते समये अपि (ii) ________ भवति तथैव महान्तः (iii) ________ सम्पत्ति आगते सति अपि शान्ताः भवति एवमेव (iv) ________ आगते अपि ते शान्ताः एव तिष्ठन्ति।
मञ्जूषा- जनाः, विपत्ती, उदये, रक्त:
उत्तराणि:
(i) उदये
(ii) रक्तः
(iii) जनाः
(iv) विपत्तौ

(ञ) विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम्।
अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥

भावार्थ:
अर्थात् अस्मिन् विचित्रे (i) ________ किञ्चिदपि वस्तु (ii) ________ नास्ति। यतः यदा धावनस्य कार्य भवति तदा (iii) ________ प्रयोगः क्रियते परन्तु यदा भार वहनस्य (iv) ________ क्रियते तदा खरः उपयोगी भवति।
मञ्जूषा- संसारे, अश्वस्य, कार्य, निरर्थकम्
उत्तराणि:
(i) संसारे
(ii) अश्वस्य
(iii) कार्य
(iv) निरर्थकम्

5. पर्यायपदानि-उचितं पर्याय मेलनं कुरुत-

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 5


उत्तराणि:

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 5
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 5

6. (अ) विशेषण-विशेष्यपदानि योजयत-

विशेषण पदानि – विशेष्य पदानि
(क) महान् – (i) शत्रुः
(ख) प्रथमः – (ii) शील
(ग) समान – (iii) पुस्तके
(घ) शोभने – (iv) पुरुषः
(ङ) लघु: – (v) रिपुः
(च) श्रेष्ठतम् – (vi) गीतानि
(छ) मधुराणि – (vii) कथा
उत्तराणि:
(क) (v), (ख) (i), (ग) (ii), (घ) (iii), (ङ) (vii), (च) (iv), (छ) (vi)

(आ) संस्कृतेन वाक्यप्रयोगं कुरुत-

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 6

उत्तराणि:
(क) नीलः मेघः आकाशे सञ्चरति।
(ख) सुन्दरी बालिका गीतं गायति।
(ग) अतं मधुरं फलं खादामि।
(घ) रामः दशरथस्य प्रियः पुत्रः आसीत्।

7. विपर्ययमेलनं कुरुत-

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 7
NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que.

उत्तराणि:

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि Que. 7

NCERT 10th Sanskrit (Shemushi) Chapter 6, class 10 Sanskrit (Shemushi) Chapter 6 solutions

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6: Download PDF

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि

Download PDF: NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 6-सुभाषितानि PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Shemushi) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.