NCERT Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

Class 10: Sanskrit (Shemushi) Chapter 7 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 7 Notes. NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा NCERT 10th...

Curriculum NCERT
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit (Shemushi) Chapter 7 solutions. Complete Class 10 Sanskrit (Shemushi) Chapter 7 Notes.

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

NCERT 10th Sanskrit (Shemushi) Chapter 7, class 10 Sanskrit (Shemushi) Chapter 7 solutions

प्रश्न 1.
एकपदेन उत्तरं लिखत

(क) वनराजः कैः दुरवस्था प्राप्तः?
(ख) कः वातावरणं कर्कशध्वनिना आकुलीकरोति?
(ग) काकचेष्ट: विद्यार्थी कीदृशः छात्रः मन्यते?
(घ) कः आत्मानं बलशाली, विशालकायः, पराक्रमी च कथयति?
(ङ) बकः कीदृशान् मीनान् क्रूरतया भक्षयति?
उत्तर:
(क) तुच्छजीवैः
(ख) काकः
(ग) आदर्शः
(घ) गजः
(ङ) वराकान्

प्रश्न 2.
अधोलिखितप्रश्नानामुत्तराणि पूर्णवाक्येन लिखत

(क) नि:संशयं कः कृतान्तः मन्यते?
(ख) बकः वन्यजन्तूनां रक्षोपायान् कथं चिन्तयितुं कथयति?
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं किं वदति?
(घ) यदि राजा सम्यक् न भवति तदा प्रजा कथं विप्लवे?
(ङ) मयूरः कथं नृत्यमुद्रायां स्थितः भवति?
(च) अन्ते सर्वे मिलित्वा कस्य राज्याभिषेकाय तत्पराः भवति?
(छ) अस्मिन्नाटके कति पात्राणि सन्ति?
उत्तर:
(क) यः अपरैः वित्रस्तान् पीड्यमानान् जन्तून् सदा न रक्षति पार्थिवरूपेण स: निसंशय कृतान्तः मन्यते।
(ख) बकः शीतले जले बहुकाल पर्यन्तम् अविचलः ध्यानमग्नः स्थितप्रज्ञः इव स्थित्वा वन्यजन्तूनां रक्षोपायान् चिन्तयितुं कथयति।
(ग) अन्ते प्रकृतिमाता प्रविश्य सर्वप्रथमं वदति यत् सर्वे जीवाः एव तस्याः सन्ततिः। कथं मिथः कलहं कुर्वन्ति। सर्वे जीवाः अन्योन्यश्रिताः सन्ति।
(घ) यदि राजा सम्यक् न भवति तदा राजा जलधौ अकर्णधारा नौरिव विप्लवेत्।
(ङ) मयूरः पिच्छान् उद्घाट्य नृत्यमुद्रायां स्थितः भवति।
(च) अन्ते सर्वे मिलित्वा उलूकस्य राज्याभिषेकाय तत्पराः भवति।
(छ) अस्मिन् नाटके द्वादश पात्राणि सन्ति।

प्रश्न 3.
रेखांकितपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) सिंहः वानराभ्यां स्वरक्षायाम् असमर्थः एवासीत्।
(ख) गजः वन्यपशून् तुदन्तं शुण्डेन पोथयित्वा मारयति।
(ग) वानरः आत्मानं वनराजपदाय योग्यः मन्यते।
(घ) मयूरस्य नृत्यं प्रकृतेः आराधना।
(ङ) सर्वे प्रकृतिमातरं प्रणमन्ति।
उत्तर:
(क) सिंहः वानराभ्याम् कस्याम् असमर्थः एवासीत्?
(ख) गजः वन्यपशून् तुदन्तं केन पोथयित्वा मारयति?
(ग) वानरः आत्मानं कस्मै योग्यः मन्यते?
(घ) मयूरस्य नृत्यं कस्याः आराधना?
(ङ) सर्वे काम् प्रणमन्ति?

प्रश्न 4.
शुद्धकथनानां समक्षम् आम् अशुद्धकथनानां च समक्षं न इति लिखत

(क) सिंहः आत्मानं तुदन्तं वानरं मारयति।
(ख) का-का इति बकस्य ध्वनिः भवति।
(ग) काकपिकयोः वर्णः कृष्णः भवति।
(घ) गजः लघुकायः, निर्बलः च भवति।
(ङ) मयूरः बकस्य कारणात् पक्षिकुलम् अवमानितं मन्यते।
(च) अन्योन्यसहयोगेन प्राणिनाम् लाभः जायते।
उत्तर:
(क) न
(ख) न
(ग) आम्
(घ) न
(ङ) आम्
(च) आम्

प्रश्न 5.
मञ्जूषातः समुचितं पदं चित्वा रिक्तस्थानानि पूरयत
स्थितप्रज्ञः, यथासमयम्, मेध्यामेध्यभक्षकः, अहिभुक्, आत्मश्लाघाहीनः, पिकः।

(क) काकः ………………… भवति।
(ख) …………………. परभृत् अपि कथ्यते।
(ग) बकः अविचल: ………………… इव तिष्ठति।
(घ) मयूरः ……… इति नाम्नाऽपि ज्ञायते।
(ङ) उलूक : ………. पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते …………………..।
उत्तर:
(क) काक: मेध्यामध्यभक्षकः भवति।
(ख) पिकः परभृत् अपि कथ्यते।
(ग) बकः अविचलः स्थितप्रज्ञः इव तिष्ठति।
(घ) मयूरः अहिभुक् इति नाम्नाऽपि ज्ञायते।
(ङ) उलूक: आत्मश्लाघाहीनः पदनिर्लिप्तः चासीत्।
(च) सर्वेषामेव महत्त्वं विद्यते यथासमयम्।

प्रश्न 6.
वाच्यपरिवर्तनं कृत्वा लिखत
उदाहरणम्- क्रुद्धः सिंहः इतस्ततः धावति गर्जति च।

-क्रुद्धेन सिंहेन इतस्ततः धाव्यते गय॑ते च।
(क) त्वया सत्यं कथितम्।
(ख) सिंहः सर्वजन्तून् पृच्छति।
(ग) काकः पिकस्य संततिं पालयति।
(घ) मूयरः विधात्रा एव पक्षिराजः वनराजः वा कृतः।
(ङ) सर्वैः खगैः कोऽपि खगः एव वनराजः कर्तुमिष्यते स्म।
(च) सर्वे मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नं कुर्वन्तु।
उत्तर:
(क) त्वम् सत्यं कथयसि।
(ख) सिंहेन सर्वजन्तवः पृच्छ्यन्ते।
(ग) काकेन पिकस्य सन्ततिः पालयते।
(घ) विधाता मयूरम् एव पक्षिराज वनराजं वा अकरोत्।
(ङ) सर्वे खगाः कम् अपि खगं वनराजं कर्तुम्-ऐच्छन्।
(च) सर्वैः मिलित्वा प्रकृतिसौन्दर्याय प्रयत्नः क्रियते।

NCERT 10th Sanskrit (Shemushi) Chapter 7, class 10 Sanskrit (Shemushi) Chapter 7 solutions

प्रश्न 7.
समासविग्रहं समस्तपदं वा लिखत

(क) तच्छजीवौः ………………।
(ख) वृक्षोपरि ……………. |
(ग) पक्षिणां सम्राट् ……………
(घ) स्थिता प्रज्ञा यस्य सः ….
(ङ) अपूर्वम् …. ……।
(च) व्याघ्रचित्रका
उत्तर:
(क) तुच्छै: जीवैः
(ग) पक्षिसम्राट
(ङ) न पूर्वम्
(ख) वृक्षस्य उपरि
(घ) स्थितप्रज्ञः
(च) व्याघ्रः च चित्रकः च

NCERT 10th Sanskrit (Shemushi) Chapter 7, class 10 Sanskrit (Shemushi) Chapter 7 solutions

Additional Important Questions and Answers

पठित-अवबोधनम् |

I. पठित-सामाग्रयाम् आधारितम् अवबोधनकार्यम् |
अधोलिखितान् नाट्याशान् श्लोकान् च पठित्वा प्रश्नानाम् उत्तराणि लिखत
वनस्य दृश्यम् समीपे एवैका नदी वहति। एकः सिंहः सुखेन विश्राम्यते तदैव एकः वानरः आगत्य तस्य पुच्छं धुनोति। क्रुद्धः सिंहः तं प्रहर्तुमिच्छति परं वानरस्तु कूर्दित्वा वृक्षमारूढः। तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति एवमेव वानराः वारं वारं सिंहं तुदन्ति। क्रुद्धः सिंहः इतस्ततः धावति, गर्जति परं किमपि कर्तुमसमर्थः एव तिष्ठति। वानराः हसन्ति वृक्षोपरि च विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

NCERT Solutions for Class 10 Sanskrit Shemushi Chapter 7

प्रश्नाः
I. एकपदेन उत्तरत
(i) एकः वानरः कस्य पुच्छ धुनोति?
(ii) के सिंह तुदन्ति?
उत्तर:

(i) सिंहस्य
(ii) वानराः

II. पूर्णवाक्येन उत्तरत
विविधाः पक्षिणः किम् कुर्वन्ति?
उत्तर:

विविधाः पक्षिणः सिंहस्य दशां दृष्ट्वा हर्ष मिश्रितं कलरवं कुर्वन्ति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखत

(i) ‘वहति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) एका
(ख) नदी
(ग) वनस्य
(घ) दृश्यम्
उत्तर:
(ख) नदी

(ii) ‘सिंहः तम् प्रहर्तु…….।’ अस्मिन् वाक्ये ‘तम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानरः
(ख) वानराय
(ग) वृक्षाय
(घ) सिंहाय
उत्तर:
(ख) वानराय

(iii) ‘वृक्षात्’ इति पदस्य विशेषणपदं किम्?
(क) अन्यस्मात्
(ख) अपरः
(ग) एका
(घ) विविधाः
उत्तर:
(क) अन्यस्मात्

(iv) ‘खगाः’ इत्यर्थे किं पदं प्रयुक्तम्?
(क) क्रुद्धः
(ख) पक्षिणः
(ग) सिंहः
(घ) एवैका
उत्तर:
(ख) पक्षिणः

(ख) काकः – अरे! अरे! किं जल्पसि? यदि अहं कृष्णवर्णः तर्हि त्वं कि गौरागः? अपि च विस्मर्यते किं यत् मम सत्यप्रियता तु जनानां कृते उदाहरणस्वरूपा-‘अनृतं वदसि चेत्
काकः दशेत्’-इति प्रकारेण। अस्माकं परिश्रमः ऐक्यं च विश्वप्रथितम्। अपि च काकचेष्टः विद्यार्थी एव आदर्शच्छात्रः मन्यते।

पिकः – अलम् अलम् अतिविकत्थनेन। किं विस्मयते यत्
काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः।
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

NCERT 10th Sanskrit (Shemushi) Chapter 7, class 10 Sanskrit (Shemushi) Chapter 7 solutions

प्रश्ना :
I. एकपदेन उत्तरत
(i) केषाम् ऐक्यम् विश्वप्रथितम् अस्ति।
(ii) काकचेष्टः विद्यार्थी कीदृशः छात्रः मन्यते?
उत्तर:

(i) काकानाम्
(ii) आदर्शः

II. पूर्णवाक्येन उत्तरत
पिककाकयोः भेदः कदा ज्ञायते?
उत्तर:

वसन्तसमये प्राप्ते पिककाकयोः भेदः ज्ञायते।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखित
(i) ‘सत्यं’ इति पदस्य विपरीतार्थकं पदं किम्?
(क) अनृतं
(ख) प्रथितम्
(ग) ऐक्यं
(घ) अलम्
उत्तर:

(क) अनृतं

(ii) ‘ऐक्यं’ इति पदस्य कः अर्थः?
(क) काकः
(ख) कृष्ण
(ग) वर्णः
(घ) एकता
उत्तर:

(घ) एकता

(iii) ‘त्वं किं गौराङ्ग:?’ अस्मिन् वाक्ये ‘त्वं’ इति सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) काकः
(ग) पिकाय
(घ) पिकस्य
उत्तर:

(ग) पिकाय

(iv) ‘दशेत्’ इति क्रियापदस्य कर्तृपदं किम्? ।
(क) काकः
(ख) चेत्
(ग) अनृतं
(घ) पिकः
उत्तर:

(क) काकः

(ग) काकः – रे परभृत! अहं यदि तव संततिं न पालयामि तर्हि कुत्र स्युः पिका:? अतः अहम् एव करुणापरः पक्षिसम्राट् काकः।
गजः – समीपतः एवागच्छन् अरे! अरे! सर्वं सम्भाषण शृण्वन्नेवाहम् अत्रागच्छम्। अहं विशालकायः, बलशाली, पराक्रमी च। सिंहः वा स्यात् अथवा अन्यः कोऽपि, वन्यपशून् तु तुदन्तं जन्तुमहं स्वशुण्डेन पोथयित्वा मारयिष्यामि। किमन्यः कोऽप्यस्ति एतादृशः
पराक्रमी। अतः अहमेव योग्यः वनराजपदाय।
वानरः – अरे! अरे! एवं वा (शीघ्रमेव गजस्यापि पुच्छं विधूय वृक्षोपरि आरोहति।)

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

प्रश्ना :
I. एकपदेन उत्तरत

(i) काकः कस्य सन्ततिं पालयति?
(ii) कः पुच्छं विधूय वृक्षोपरि आरोहति?
उत्तर:
(i) पिकस्य
(ii) वानरः

II. पूर्णवाक्येन उत्तरत
गजः किं करिष्यति?
उत्तर:
गजः वन्यपशून् तुदन्तं जन्तुं स्वशुण्डेन पोथयित्वा मारयिष्यति।

III. निर्देशानुसारम् उचितम् उत्तर प्रदत्तविकल्पेभ्यः चित्वा लिखत
(i) ‘अगच्छम्’ इति क्रियापदस्य कर्तृपदं किम्?
(क) सर्वा
(ख) वार्ता
(ग) अहम्
(घ) गजः
उत्तर:
(ग) अहम्

(ii) ‘अहम् एव करुणापरः……..।’ अस्मिन् वाक्ये अहम् सर्वनामपदं कस्मै प्रयुक्तम्?
(क) काकाय
(ख) गजाय
(ग) वानराय
(घ) काकस्य
उत्तर:
(क) काकाय

(iii) ‘आकर्ण्य’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) योग्यः
(ख) परभृत्
(ग) शुण्डेन
(घ) विधूय
उत्तर:
(घ) विधूय

(iv) ‘तुदन्तं’ इति पदस्य विशेष्यपदं किम्?
(क) वन्यपशून्
(ख) जन्तुम्
(ग) जन्तुमहं
(घ) शुण्डेन उत्तराणि
उत्तर:
(ख) जन्तुम्

(घ) (गजः तं वृक्षमेव स्वशुण्डेन आलोडयितुमिच्छति परं वानरस्तु कूर्दित्वा अन्यं वृक्षमारोहति। एवं गजं वृक्षात् वृक्षं प्रति धावन्तं दृष्ट्वा सिंहः अपि हसति वदति च।)
सिंहः – भोः गज! मामप्येवमेवातुदन् एते वानराः।।
वानरः – एतस्मादेव तु कथयामि यदहमेव योग्यः वनराजपदाय येन विशालकायं पराक्रमिणं, भयंकरं चापि सिंह गजं वा पराजेतुं समर्था अस्माकं जातिः।
अतः वन्यजन्तूनां रक्षायै वयमेव क्षमाः। (एतत्सर्वं श्रुत्वा नदीमध्यस्थितः एकः बकः)

प्रश्नाः
I. एकपदेन उत्तरत

(i) केषाम् जातिः सिंह गजं वा पराजेतुं समर्था अस्ति?
(ii) वानराः कम् अतुदन्?
उत्तर:
(i) वानराणाम्
(ii) सिंहम्

II. पूर्णवाक्येन उत्तरत
सिंहः किमर्थं हसति?
उत्तर:

वानरैः पीडितं गजं वृक्षात् वृक्षं धावन्तं दृष्ट्वा सिंहः हसति।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखत
(i) ‘इच्छति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) गजः
(ख) वृक्षम्
(ग) वानरः
(घ) सिंहः
उत्तर:
(क) गजः

(ii) ‘वयमेव’ अत्र ‘वयम्’ सर्वनामपदं काभ्याम् प्रयुक्तम्?
(क) वानराभ्याम्
(ख) वानराय
(ग) सिंहाय
(घ) गजाय
उत्तर:
(क) वानराभ्याम्

(iii) ‘करी’ इति पदस्य पर्याय पदं किम्?
(क) सिंहः
(ख) गजः
(ग) वानरः
(घ) बकः
उत्तर:
(ख) गजः

(iv) ‘एते’ इति पदस्य विशेष्यपदं किम्?
(क) गजः
(ख) माम्
(ग) वानराः
(घ) सिंहः
उत्तर:
(ग) वानराः

(ङ) को न जानाति तव ध्यानावस्थाम्। ‘स्थितप्रज्ञ’ इति व्याजेन वराकान् मीनान् छलेन अधिगृह्य क्रूरतया भक्षयसि। धिक् त्वाम्। तव कारणात् तु सर्वं पक्षिकुलमेवावमानितं जातम्। (सगर्वम्) अतएव कथयामि यत् अहमेव योग्य: वनराजपदाय। शीघ्रमेव मम राज्याभिषेकाय तत्पराः भवन्तु सर्वे वन्यजीवाः। अरे वानर! तूष्णीं भव। कथं त्वं योग्यः वनराजपदाय? पश्यतु पश्यतु मम शिरसि राजमुकुटमिव शिखां स्थापयता विधात्रा एवाहं पक्षिराजः कृतः अतः वने निवसन्तं मां वनराजरूपेणापि द्रष्टुं सज्जाः भवन्तु अधुना यतः कथं कोऽप्यन्यः विधातुः निर्णयम् अन्यथाकर्तुं क्षमः।

प्रश्नाः
I. एकपदेन उत्तरत

(i) बकः कान् छलेन क्रूरतया भक्षयति?
(ii) कस्य कारणात् पक्षिकुलम् अवमानितं जातम्?
उत्तर:
(i) मीनान्
(ii) बकस्य

II. पूर्णवाक्येन उत्तरत
विधात्रा मयूरः कथं पक्षिराजः कृतः?
उत्तर:

विधात्रा मयूरस्य शिरसि राजमुकुटमिव शिखां स्थापयता मयूरः पक्षिराजः कृतः।

III. निर्देशानुसारम् उचितम् उत्तरम् प्रदत्तविकल्पेभ्यो चित्वा लिखत

(i) ‘अहमेव योग्यः …….।’ अत्र ‘अहम्’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) वानराय
(ख) वानरस्य
(ग) मयूराय
(घ) वकाय
उत्तर:
(क) वानराय

(ii) ‘भवन्तु’ इति क्रियापदस्य कर्तृपदं किम्?
(क) मम
(ख) तत्पराः
(ग) वन्यजीवाः
(घ) अभिषेकाय
उत्तर:
(ग) वन्यजीवाः

(iii) ‘मीनान्’ इति विशेष्य पदस्य विशेषणपदं किम्?
(क) वराकान्
(ख) व्याजेन
(ग) छलेन
(घ) क्रूरतया
उत्तर:
(क) वराकान्

(iv) ‘अरण्ये’ इत्यर्थे किम् पदं प्रयुक्तम्?
(क) निवसन्तं
(ख) विधात्रा
(ग) सज्जाः
(घ) वने
उत्तर:
(घ) वने

II. प्रश्ननिर्माणम् ।

अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य प्रश्ननिर्माणं कुरुत
(i) मम नृत्यं तु प्रकृतेः आराधना।
(ii) वन्यजीवाः भक्षकं रक्षकपदयोग्यं न मन्यन्ते।
(iii) तुदन्तं वानरं सिंहः मारयति।
(iv) समीपे एका नदी वहति।
(v) अस्माकम् ऐक्यं विश्वप्रथितम्।
(vi) राज्ञः सुखे प्रजा सुखम् भवति।
प्रश्नाः
(i) मम नृत्यं कस्याः आराधना?
(ii) के भक्षकं रक्षकपदयोग्यं न मन्यन्ते?
(iii) कीदृशं वानरं सिंहः मारयति?
(iv) कुत्र एका नदी वहति?
(v) केषाम् ऐक्यं विश्वप्रथितम्?
(vi) कस्य सुखे प्रजा सुखम् भवति?

III. ‘क’ अन्वयः

अधोलिखितानाम् श्लोकानाम् अन्वयेषु रिक्तपूर्तिं कुरुत
(1) स्वभावरौद्रमत्युग्रं क्रूरमप्रियवादिनम्।
उलूकं नृपतिं कृत्वा का नु सिद्धिर्भविष्यति।।
अन्वयः-स्वभावरौद्रम् (i)………….. क्रूरम् (ii).. .. उलूकं नृपतिं (iii)……………… नु (iv)…………. भविष्यति।
उत्तर:
स्वभावरौद्रम् अत्युग्रं क्रूरम् अप्रियवादिनम् उलूकं नृपतिं कृत्वा नु का सिद्धिः भविष्यति।

(2) यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव।।
अन्वयः–यदि सम्यङ्नेता (i)…………. न (ii)…………. ततः इह प्रजा (iii)………….नौः (iv)…………. जलधौ विप्लवेत।
उत्तर:
यदि सम्यङ्नेता नरपतिः न स्यात् ततः इह प्रजा अकर्णधारा नौः इव जलधौ विप्लवेत।

(3) प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते।।
अन्वयः—परस्परविवाद: (i) …………. हानिः (ii) ………… अन्योन्यसहयोगेन (iii) ….. लाभः (iv) ………..
उत्तर:
परस्परविवादः प्राणिनां हानिः जायते। अन्योन्यसहयोगेन तेषाम् लाभः प्रजायते।

(4) अगाधजलसञ्चारी न गर्वं याति रोहितः।
अङ्गुष्ठोदकमात्रेण शफरी फुफुरायते।।
अन्वयः–अगाधजलसञ्चारी (i) ……….. गर्व न (ii)……….. अगुष्ठ (iii)……….. शफरी (iv)….
उत्तर:
अगधजलसञ्चारी रोहितः गर्व न याति। अङ्गुष्ठ उदकमात्रेण शफरी फुफुरायते।

III. ‘ख’ भावबोधनम्

अधोलिखिते श्लोके भावं उपयुक्तपदैः पूरयत
(1) काकः कृष्णः पिकः कृष्णः को भेदः पिककाकयोः
वसन्तसमये प्राप्ते काकः काकः पिकः पिकः॥
भावार्थ:-काकस्य वर्णः कृष्णः (i)…………………. अपि वर्ण: (ii)……………….. । अनयोः मध्ये कः (iii)………….. न अस्ति। परम् वसन्तसमये पिकस्य (iv) ….. भेदः ज्ञायते।
उत्तर:
(i) पिकस्य (ii) कृष्णः (iii) भेदः (iv) मधुरस्वरेण

(2) यदि न स्यान्नरपतिः सम्यनेता ततः प्रजा।
अकर्णधारा जलधौ विप्लवेतेह नौरिव॥
भावार्थ:-प्रजायाः कल्याणार्थ (i)……….. श्रेष्ठः भवितुम् अनिवार्यः अस्ति यथा (ii)……… समुद्र (iii) …………..कर्णधारः (iv) ……….. भवेत्।
उत्तर:
(2) (i) नृपः (ii) नौकया (iii) पारयितुम् (iv) निपुणः

(3) प्राणिनां जायते हानिः परस्परविवादतः।
अन्योन्यसहयोगेन लाभस्तेषां प्रजायते॥
भावार्थ:-अस्य श्लोकस्य भावः अस्ति यत् परस्परम्
(i) ……..प्राणिनां हानिः एव भवति। स्नेहेन (ii)……………….. च (iii)………………… विकास: हितं (iv)……………….. च जायते।
उत्तर:
(i) कलहेन ,(ii) सहयोगेन (iii) सर्वेषां (iv) लाभः

IV. कथाक्रमसंयोजनम्

घटनाक्रमानुसारं अधोलिखितानि वाक्यानि पुनः लेखनीयानि
(i) विविधा पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(ii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।
(iii) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छं धुनोति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(vi) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति। (viii) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।
उत्तर:
(i) एकः सिंहः सुखेन विश्राम्यते तदैव एक वानरः आगत्य तस्य पुच्छ धुनोति।
(ii) क्रुद्धः सिंहः तं प्रहर्तुमिच्छति।
(iii) तदैव अन्यस्मात् वृक्षात् अपरः वानरः सिंहस्य कर्णमाकृष्य पुनः वृक्षोपरि आरोहति।
(iv) एवमेव वानराः वारं वारं सिंहम् तुदन्ति।
(v) क्रुद्ध सिंहः इतस्ततः धावति गर्जति च।
(vi) परम् किमपि कर्तुमसमर्थः एव तिष्ठति।
(vii) विविधाः पक्षिणः अपि सिंहस्य एतादृशीं दशां दृष्ट्वा हर्षमिश्रितं कलरवं कुर्वन्ति।
(viii) तुच्छजीवैः आत्मनः एतादृश्या दुरवस्थया श्रान्तः सर्वजन्तून् दृष्ट्वा पृच्छति।

V. प्रसङ्गानुकूलम् उचितार्थम् |

I. अधोलिखितवाक्येषु रेखांकितपदानाम् कृते उचितम् अर्थं चित्वा लिखत
(i) अनृतं वदसि चेत् काकः दशेत्।।
(क) यदि
(ख) अपि
(ग) तथापि
(घ) कदा
उत्तर:
(क) यदि

(ii) अस्माकं ऐक्यं विश्वप्रथितम्।
(क) मित्रं
(ख) एकता
(ग) लघु
(घ) कनिष्ठः
उत्तर:
(ख) एकता

(iii) अहम् तव सन्ततिं पालयामि।
(क) समानम्
(ख) पुत्रीं
(ग) पुत्रं
(घ) सन्तानं
उत्तर:
(घ) सन्तानं

(iv) बकः क्रूरतया वराकान् मीनान् भक्षयति।
(क) कमनीयम्
(ख) विशालम्
(ग) तुच्छम्
(घ) दयनीयम्
उत्तर:
(घ) दयनीयम्

VI. पर्यायपदानि/विलोमपदानि

(1) अधोलिखितपदानां पर्यायपदानि लिखत
काकः, पिकः, मयूरः, वानरः
उत्तर:

काकः — वायसः,कागः
पिकः — कोकिलः,वनप्रियः।
मयूरः — नीलकण्ठ,कलापी।
वायसः — कपिः, मर्कटः।

(2) अधोलिखितपदानां विलोमपदानि मञ्जूषायां दत्तेषु पदेषु चित्वा यथासमक्षं लिखत
भक्षकः, हितं, जलधौ, रसमयं, लाभाः

पदानि — विलोमपदानि
(i) हानिः — …………
(ii) अहितं — …………
(iii) आकाशे — …………
(iv) रक्षकः — …………
(v) नीरसं — …………
उत्तर:
पदानि — विलोमपदानि
(i) हानिः — लाभाः
(ii) अहितं — हितं
(iii) आकाशे — जलधौ
(iv) रक्षकः — भक्षक:
(v) नीरसं — रसमयम्

NCERT 10th Sanskrit (Shemushi) Chapter 7, class 10 Sanskrit (Shemushi) Chapter 7 solutions

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7: Download PDF

NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा

Download PDF: NCERT Solutions for Class 10 Sanskrit (Shemushi): Chapter 7-सौहार्दं प्रकृतेः शोभा PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Shemushi) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.