CBSE Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): अपठित-अवबोधनम्

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes. NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): अपठित-अवबोधनम् NCERT 10th Sanskrit Grammar, class 10...

Curriculum CBSE
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit Grammar solutions. Complete Class 10 Sanskrit Grammar Notes.

NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): अपठित-अवबोधनम्

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

गद्यांशः
गद्यांश के प्रश्नों के उत्तर लिखने से पहले निम्नलिखित बातों का ध्यान रखना आवश्यक है-

  • सबसे पहले दिए गए गद्यांश को तीन-चार बार ध्यान से पढ़ना चाहिए।
  • गद्यांश में दिए गए अव्ययों तथा विभक्तियों का पूरा ध्यान रखना चाहिए।
  • किसी शब्द का अर्थ स्पष्ट न होने की स्थिति में पूरे वाक्य (जिस वाक्य में शब्द दिया गया है) को ध्यान से पढ़कर शब्द का भाव ग्रहण करना चाहिए।
  • शीर्षक सार्थक वाक्य या सूक्ति की एक प्रसिद्ध पंक्ति में ही होना चाहिए।
  • ‘भाषिककार्यम्’ से संबंधित प्रश्नों के उत्तर संबंधित वाक्यों को अच्छी तरह से पढ़कर और उन्हें समझकर ही दिए जा सकते हैं।

निम्नलिखित गद्यांशों पर आधारित प्रश्नोत्तरों को ध्यान से पढ़िए।

गद्यांश 1

दीपावली प्राचीनतमं पर्व। अस्मिन् दिने सर्वाधिकम् आकर्षकं मनोरञ्जञ्च भवति स्फोटकानाम् आस्फोटनम्। विचित्राणि वर्णयुक्तानि स्फोटकानि आकाशे भूमौ च विविधरूपाणि दर्शयन्ति। जनाः तानि दृष्ट्वा तुष्यन्ति। परन्तु अति सर्वत्र वर्जयेत्। रात्रौ आस्फोटकानां शब्दः कर्णौ बधिरीकरोति वायुमण्डलं च दूषयति। पूर्वं जनसंख्या सीमिता आसीत्। वृक्षाः वायुं शुद्धं कुर्वन्ति स्म। इदानीम् जनसंख्या प्रवृद्धा, वृक्षसंख्या क्षीणा। विस्फोटकेभ्यः निर्गतः धूमः रुग्णान् पीडयति, नवजातशिशुभ्यः हानिकरः सिध्यति। दीपावली-समये शरदि आकाशः निर्मलः भवति। सर्वत्र पवित्रता विराजते। अतः वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्। सर्वेषां जीवन सुखमयं भवेत्। किं तेन उत्सवेन यः कस्मैचित् अपि कष्टकर: भवेत्? ‘मा कश्चिद् दुःखभाग भवेत्’ इति अस्माकम् आदर्शः।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) केषाम् आस्फोटनम् सर्वेभ्यः आकर्षकम् मनोरञ्जकम् च?
(ii) दीपावली कस्यां ऋतौ भवति?
(iii) दीपावली कीदृशं पर्व अस्ति?
उत्तराणि:
(i) स्फोटकानाम्
(ii) शरदि
(ii) प्राचीनतमम्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) अस्माकं कः आदर्शः?
(ii) स्फोटकानां धूमः कान् पीडयति?
(iii) वयं दीपावलीम् कथं मानयेम?
उत्तराणि:
(i) ‘मा कश्चिद् दुःखभाग् भवेत्’ इति अस्माकम् आदर्शः।
(ii) स्फोटकानां धूमः रुग्णान् पीडयति।
(iii) वयम् आनन्देन दीपावलीम् मानयेम, वसुन्धरां भूषितां कुर्याम न तु दूषिताम्।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)

(i) ‘प्रवृद्धा’ इत्यस्य किं विलोमपदम् अत्र प्रयुक्तम्?
(क) सीमिता
(ख) निर्गतः
(ग) क्षीणा
(घ) पवित्रता
उत्तराणि:
(ग) क्षीणा

(ii) ‘पर्व’ इत्यस्य किं विशेषणम् अत्र प्रयुक्तम् ?
(क) प्राचीनतमम्
(ख) आकर्षकम्
(ग) मनोहरम्
(घ) शुद्धम्
उत्तराणि:
(क) प्राचीनतमम्

(iii) ‘लाभकरः’ इत्यस्य किं विपर्ययपदं प्रयुक्तम्?
(क) निर्गतः
(ख) कष्टकर:
(ग) आदर्श:
(घ) हानिकरः
उत्तराणि:
(घ) हानिकरः

(iv) ‘सर्वत्र पवित्रता विराजते’ अत्र क्रियापदं किम्?
(क) सर्वत्र
(ख) विराजते
(ग) पवित्रता
(घ) पवित्रताम्
उत्तराणि:
(ख) विराजते

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

दीपावल्याः पर्यावरणे प्रभावः / अति सर्वत्र वर्जयेत् / वयं दीपावली कथं मानयेम / दीपावली महापर्व।

गद्यांश 2

तक्षकः तं सकौतूहलं पृष्टवान् “भोः! भवान् केन वा उद्देश्येन राजधानीं गच्छति? तत्र तु इदानीं महती विशृङ्खला वर्तते। श्वः तक्षक : नाम विषधरः सर्पः महाराजं दक्ष्यति इति श्रूयते। अतः तत्र सुरक्षा व्यवस्था दृढ़तरा सञ्जाता। कोऽपि महाराज्ञः समीप गन्तुं तं द्रष्टुं वा न अनुमन्यते” इति।
“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनी विद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि” इति धन्वन्तरिः सस्पृहम् अवदत्। तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितोऽभवत्। ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत्, तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य सः धन्वन्तरि बहुधा अबोधयत् – “भोः, तक्षकस्य विषम् अतिभीषणम् अस्ति। तक्षक-दंशमात्रेण प्राणी भस्मीभविष्यति। अतः तस्य राज्ञः समीपं गमनेन प्रयोजनमेव नास्ति।”

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) कः तक्षक सस्पृहम् अवदत्?
(ii) कः धनवन्तरि बहुधा अबोधयत्?
(iii) तक्षकः तं कथं पृष्टवान्?
उत्तराणि:
(i) धन्वन्तरिः
(ii) सः
(iii) सकौतूहलम्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) धन्वन्तरिः छद्मवेशं तक्षक सस्पृहं किम् अवदत्?
(ii) किं विचिन्त्य तक्षकः धन्वन्तरि बहुधा अबोधयत्?
(iii) तच्छ्रुत्वा कः शंकितोऽभवत्?
उत्तराणि:
(i) धन्वन्तरिः छद्मवेशं तक्षकं सस्पृहम् अवदत्-“एतत् सर्वं ज्ञायते मया। किन्तु अहं मृतसञ्जीवनीविद्यां जानामि। तक्षक: यदि राजानं दशेत् तर्हि अहमेव तस्मै पुनर्जीवनं प्रदातुं शक्नोमि इति मन्ये। तदर्थमेव तत्र गच्छामि।”
(ii) ‘यदि सत्यमेव धन्वन्तरिः राजानं मरणाद् रक्षेत् तर्हि मुनिवचनस्य अन्यथा गतिः भवेत्, ततः मुनेरपि अवमाननं स्यात्’ इति विचिन्त्य तक्षकः धन्वन्तरिं बहुधा अबोधयत्।
(iii) तच्छ्रुत्वा छद्मवेषी तक्षकः शंकितो ऽभवत्।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) अनुच्छेदे ‘चिन्तयित्वा’ इति पदस्य कः पर्यायः आगतः?
(क) सस्पृहम्
(ख) अन्यथा
(ग) विचार्य
(घ) विचिन्त्य
उत्तराणि:
(घ) विचिन्त्य

(ii) ‘ह्यः’ इति पदस्य कः विपर्ययः अत्र लिखितः?
(क) श्वः
(ख) तर्हि
(ग) अतः
(घ) अन्यथा
उत्तराणि:
(क) श्वः

(iii) ‘एतत् सर्वं ज्ञायते मया’। अस्मिन् वाक्ये क्रियापदं किम्?
(क) मया
(ख) सर्वम्
(ग) ज्ञायते
(घ) एतत्
उत्तराणि:
(ग) ज्ञायते

(iv) ‘विषम् अतिभीषणम्’ अनयोः पदयोः विशेषणपदं किम्?
(क) विषम्
(ख) अतिभीषणम्
(ग) अति
(घ) भीषणम्
उत्तराणि:
(ख) अतिभीषणम्

प्रश्न IV.
उपरिलिखिताय अनुच्छेदाय समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

मुनेः शापस्य गतिः। धन्वन्तरिः महावैद्यः।

गद्यांश 3

‘रामायणम् इतिहासः, न तु पुराणम्’ इति हि भारतीया श्रद्धा। या घटना प्रवृत्ता तां विवृणोति इतिहासः। किन्तु पुराणं तथा न। भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते तत्र। पुराणेषु अपि क्वचित् ऐतिहासिकाः अंशाः समाविष्टाः भवन्ति इति तु अन्यद् एतत्। इतिहासग्रन्थे तु यत् वर्ण्यते तत् समग्रं वास्तविकं भवति। वर्णनादिषु कविकल्पना स्यात् चेदपि वृत्तं तु वास्तविकमेव। रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।
किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति। येन कथा वर्ण्यते विस्तरेण, सः सर्वोऽपि ग्रन्थराशिः पुराणतुल्यः एव इति तेषां मतम् अस्ति। अतः ते रामायणस्य ऐतिहासिकताविषये प्रमाणम् अपेक्षन्ते। तद्विषये मान्येन पुष्कर भटनागर वर्येण कश्चन सफलः प्रयासः कृतः अस्ति। आधुनिकं तन्त्रांशम् (Software) उपयुज्य सः रामायणे वर्णिताः खगोलीयघटनाः वास्तविकाः एव इति सप्रमाणं निरूपितवान् अस्ति।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए -केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) रामायणम् किम्?
(ii) या घटना प्रवृत्ता तां कः विवृणोति?
(iii) पुराणेषु क्वचित् कीदृशाः अंशाः समाविष्टाः भवन्ति?
उत्तराणि:
(i) इतिहासः
(ii) इतिहासः
(iii) ऐतिहासिकाः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) किन्तु आधुनिकाः कस्मिन् असमर्थाः सन्ति?
(ii) पुराणेषु का कल्पते?
(iii) कुत्र कदापि पारम्परिकाणां न सन्देहः?
उत्तराणि:
(i) किन्तु आधुनिकाः इतिहासपुराणयोः भेदस्य अवगमने (ज्ञातुम्) असमर्थाः सन्ति।
(ii) पुराणेषु भक्तिश्रद्धादीनाम् उत्पादनाय कथा कल्पते।
(iii) रामायणमहाभारतयोः ऐतिहासिकताविषये पारम्परिकाणां न सन्देहः कदापि।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)

(i) ‘आधुनिकं तन्त्रांशम्’। अनयोः पदयोः विशेष्यपदं किम्?
(क) आधुनिकम्
(ख) तन्त्रांशम्
(ग) तन्त्रांशः
(घ) आधुनिकः
उत्तराणि:
(ख) तन्त्रांशम्

(ii) अनुच्छेदे ‘कल्पते’ इति क्रियायाः कर्तृपदं किम्?
(क) उत्पादनाय
(ख) भक्तिश्रद्धादीनाम्
(ग) तत्र
(घ) कथा
उत्तराणि:
(घ) कथा

(iii) ‘या घटना प्रवृत्ता’ अत्र क्रियापदं किम्?
(क) या
(ख) घटना
(ग) प्रवृत्ता
(घ) घटनाः
उत्तराणि:
(ग) प्रवृत्ता

(iv) अनुच्छेदे ‘असफलः’ इति पदस्य कः विपर्ययः आगतः?
(क) प्रयासः
(ख) सफल:
(ग) कृतः
(घ) सन्देहः
उत्तराणि:
(ख) सफल:

प्रश्न IV.
उपरिलिखितस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

ऐतिहासिकं काव्यं रामायणम्।

गद्यांश 4

कश्चन बालकः आसीत्। तस्य पिता नितरां निर्धनः आसीत्। बालकः अध्ययनं कर्तुम् इच्छति स्म। किन्तु यस्मिन् गृहे उदरपूर्ति-समस्यायाः एव उत्तरं न स्यात् तत्र तस्य अध्ययनाय व्यवस्था कथं भवेत्? अतः बालक: विद्यालयं गच्छतः स्वसम वयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म।
सः स्नेहपरः मृदुभाषी, उत्साहमूर्तिः च आसीत्। पित्रा सह कार्यं कुर्वन् स: बहूनां बालानां मैत्री सम्पादितवान्। ते बालाः तम् अक्षराणि अपाठयन्। अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः। ‘पुत्रः विद्यालयं प्रति प्रेषणीयः’ इति पितुः अपि तीव्र इच्छा आसीत्। किन्तु निर्धनता जन्या असहायकता तं बाधते स्म। अधिक धनसम्पादनस्य आशया सः कदाचित् पुत्रेण सह कलकत्ता नगरं प्रति प्रस्थितवान्। रेलयानेन गमनाय धनं नासीत् अतः तौ पादाभ्याम् एव प्रस्थितवन्तौ।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) बालकस्य पिता कीदृशः आसीत्?
(ii) तौ कथमेव प्रस्थितवन्तौ?
(iii) बालकस्य गृहे कस्याः समाधानं न आसीत्?
उत्तराणि:
(i) निर्धनः
(ii) पादाभ्याम्
(iii) उदरपूर्ति-समस्यायाः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) सः बालकः कथं निश्श्वसिति स्म?
(ii) सः कीदृशः आसीत्?
(iii) सः कथं शब्दज्ञानिदिकं प्राप्तवान्?
उत्तराणि:
(i) सः बालक: विद्यालयं गच्छतः स्वसमवयस्कान् बालकान् दृष्ट्वा निश्श्वसिति स्म।
(ii) सः स्नेहपरः, मृदुभाषी उत्साहमूर्तिः च आसीत्।
(iii) अक्षराभ्यासं कृत्वा अन्यैः उपयुक्तपूर्वाणि पुस्तकानि पठन् शब्दज्ञानादिकं प्राप्तवान् सः।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘कश्चन बालकः आसीत्। अत्र कर्तृपदं किम् अस्ति?
(क) कश्चन
(ख) कः
(ग) बालकः
(घ) आसीत्
उत्तराणि:
(ग) बालकः

(ii) ‘सः स्नेहपरः, मृदुभाषी, उत्साहमूर्तिः च आसीत्।’ अस्मिन् वाक्ये क्रियापदं किम्?
(क) सः
(ख) आसीत्
(ग) स्नेहपरः
(घ) मृदुभाषी
उत्तराणि:
(ख) आसीत्

(iii) ‘तस्य पिता नितरां निर्धनः आसीत्।’ अस्मिन् वाक्ये ‘पिता’ पदस्य किं विशेषणम् आगतम्?
(क) नितरां
(ख) निर्धनः
(ग) तस्य
(घ) आसीत्
उत्तराणि:
(ख) निर्धनः

(iv) अनुच्छेदे “धनहीनः” पदस्य कः पर्यायः आगत?
(क) अधनः
(ख) सधनः
(ग) निर्धनः
(घ) निर्धनता
उत्तराणि:
(ग) निर्धनः

प्रश्न IV.
उपरिलिखितस्य अनुच्छेदस्य कृते उचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

विद्याप्रेमिणौ पितापुत्रौ।

गद्यांश 5

संस्कृतं नाम भारतम्। संस्कृतं नाम भगवद्गीता। संस्कृतं नाम वेदाः रामायणं महाभारतं वा। संस्कृतं हि भारतस्य आत्मा वर्तते। सा भारतस्य आउत्तरात् दक्षिणान्तं, आपूर्वस्मात् पश्चिमान्तं च ऐक्यसाधिकाशक्तिः अस्ति। संस्कृतस्य स्मरणात् पञ्चाङ्गं स्मर्यते, तत्रत्याः तिथयः नक्षत्राणि च अपि स्मर्यन्ते, यासाम् आधारेण एव सर्वैः अपि भारतीयैः पर्वाणि, कुम्भ-मेलकं, होलिकोत्सवः, दीपावली, दुर्गापूजा, रक्षाबन्धनम् इत्यादीनि आचर्यन्ते। गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्-संस्कृतम् अधीयताम् इति आदिश्य। ते च योद्धाः, पण्डिताः क्रान्तिकारिणः च ‘नामधारिणः’ इति विख्याताः आसन्। संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात्। आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव अस्माकम्।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) भगवद्गीता कस्यां भाषायां वर्तते?
(ii) संस्कृतस्य समरणात् किं स्मर्यते?
(iii) के “नामधारिणः’ इति विख्याताः सन्ति?
उत्तराणि:
(i) संस्कृतभाषायाम्
(ii) पञ्चाङ्गम्
(iii) पण्डिताः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) गुरुः गोविन्द सिंहः कान् काशी प्रति प्रेषितवान् आसीत्?
(ii) संस्कृतं भारतात् अपसारितं चेत् कि भविष्यति?
(iii) अस्माकं कस्य अवलम्बनम् अपरिहार्यम् एव?
उत्तराणि:
(i) गुरुः गोविन्द सिंहः स्वीयान् श्रेष्ठान् सिक्खपण्डितान् काशी प्रति प्रेषितवान् आसीत्।
(ii) संस्कृतं भारतात् अपसारितं चेत् तेनेदं नाम एव अस्माकं शरणं स्यात् इति।
(iii) अस्माकम् आजन्मनः मरणपर्यन्तं संस्कृतस्य अवलम्बनम् अपरिहार्यम् एव।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘ऐक्यसाधिका शक्तिः’ अनयोः पदयोः विशेषणपदं किम्?
(क) शक्तिः
(ख) ऐक्यसाधिका
(ग) साधिका
(घ) ऐक्यम्
उत्तराणि:
(ख) ऐक्यसाधिका

(ii) ‘प्रेषितवान् आसीत्’ इति क्रियायाः कर्तृपदं किम् वर्तते अनुच्छेदे?
(क) गुरुः गोविन्दसिंहः
(ख) गुरुः
(ग) गोविंद सिंहः
(घ) काशीम्
उत्तराणि:
(क) गुरुः गोविन्दसिंहः

(iii) ‘अवलम्बनम् अपरिहार्यम् एव अस्माकम्।’ अत्र ‘अस्माकम्’ पदं केभ्यः प्रयुक्तम्?
(क) भारतीय
(ख) भारतीयाय
(ग) भारतीयेभ्यः
(घ) जनेभ्यः
उत्तराणि:
(ग) भारतीयेभ्यः

(iv) अनुच्छेदे ‘विद्वांसः’ पदस्य कः पर्यायः आगतः?
(क) योद्धाः
(ख) शिष्याः
(ग) क्रान्तिकारिणः
(घ) पण्डिताः
उत्तराणि:
(घ) पण्डिताः

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

संस्कृतभाषायाः महत्त्वम्।

गद्यांश 6

षट् कारणानि श्रियं विनाशयन्ति। प्रथमं कारणमस्ति असत्यम्। यः नरः असत्यं वदति, तस्य कोऽपि जनः विश्वासं न करोति। उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’ निष्ठुरता अस्ति द्वितीयं कारणम्। कदापि केनापि सह निष्ठुरता (निर्दयता) न उचिता। सदैव जगति सर्वैः सह करुणा, दया नम्रता च करणीयाः। तृतीयं कारणम् अस्ति कृतघ्नता। जीवने अनेके जनाः अस्मान् उपकुर्वन्ति। प्रायः जनाः उपकारिणं विस्मरन्ति, प्रत्युपकारं न कुर्वन्ति। एतादृशः स्वभावः कृतघ्नता इति उच्यते। आलस्यम् अपरः महान् दोषः, ‘आलस्यं हि मनुष्याणां शरीरस्थः महारिपुः’। अहङ्कारः मनुष्यस्य मतिं नाशयति। अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति। व्यसनानि अपि श्रियं हरन्ति। ये मद्यपानं कुर्वन्ति तेषाम् आत्मिकबलम्, बुद्धिबलं शारीरिकबलं च नश्यन्ति। अतः बुद्धिमान् एतान् दोषान् सर्वथा त्यजेत्।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) कीदृशं सत्यं न ब्रूयात्?
(ii) मनुष्याणां शरीरस्थ: महारिपुः कः?
(iii) द्वितीयं कारणं किमस्ति?
उत्तराणि:
(i) अप्रियम्
(ii) आलस्यम्
(ii) निष्ठुरता

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) अहङ्कारी मनुष्यः किं करोति?
(ii) तृतीयं कारणं किम् उच्यते?
(iii) किम् उक्तम्?
उत्तराणि:
(i) अहङ्कारी मनुष्यः सर्वदा आत्मप्रशंसाम् एव करोति। न कदापि कस्यचित् उपकारं करोति।
(ii) तृतीयं कारणं कृतघ्नता उच्यते।
(iii) उक्तञ्च–’सत्यं ब्रूयात्, प्रियं ब्रूयात्, न ब्रूयात् सत्यमप्रियम्।’

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘नाशयति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) अहङ्कारः
(ख) गर्वम्
(ग) धनम्
(घ) बलम्
उत्तराणि:
(क) अहङ्कारः

(ii) ‘स्मरन्ति’ इति क्रियापदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) उपकुर्वन्ति
(ख) अनुस्मरन्ति
(ग) विस्मरन्ति
(घ) कुर्वन्ति
उत्तराणि:
(ग) विस्मरन्ति

(iii) ‘षट्’ इति पदं कस्य विशेषणम्?
(क) कारणस्य
(ख) कारणाम्
(ग) अहङ्कारस्य
(घ) श्रियस्य
उत्तराणि:
(क) कारणस्य

(iv) अनुच्छेदे ‘बुद्धिम्’ इति पदस्य कः पर्यायः आगतः?
(क) मतिम्
(ख) कृतज्ञेता
(ग) निष्ठुरता
(घ) विषम्
उत्तराणि:
(क) मतिम्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

मनुष्याणां षड्दोषाः।

गद्यांश 7

एकदा शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कर्णी इत्यादीनि मिलित्वा अचिन्तयन्-“वयं सर्वे प्रतिदिनं परिश्रमं कुर्मः। एतद् उदरं सर्वं स्वीकरोति, स्वयं किमपि कार्यं न करोति। अद्यप्रभृति वयमपि कार्यं न करिष्यामः”। एवं चिन्तयित्वा सर्वाणि अङ्गानि कार्यम् अत्यजन्। पादौ स्थिरौ भूत्वा अतिष्ठताम्। हस्तौ निश्चलौ अभवताम्। मुखं अन्नकणम् अपि न प्रावेशयत् एवं द्वे दिने व्यतीते जाते। शनैः शनैः सर्वाणि अङ्गानि शिथिलानि अभवन्। कार्यशक्तिः क्षीणा अभवत्। कथमपि पुनः मिलित्वा विचारम् अकुर्वन् “अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”। नूनं संहतिः एव कार्यसाधिका।

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) शनैः शनैः सर्वाणि अङ्गानि कीदृशानि अभवन्?
(ii) कार्यसाधिका का भवति?
(iii) कानि मिलित्वा अचिन्तयन्?
उत्तराणि:
(i) शिथिलानि
(ii) संहतिः
(iii) इन्द्रियाणि

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) कानि अङ्गानि मिलित्वा कार्यं त्यक्तवन्तः?
(ii) कस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति?
(iii) सर्वाणि इन्द्रियाणि मिलित्वा कि विचारम् अकुर्वन्?
उत्तराणि:
(i) शरीरस्य सर्वाणि इन्द्रियाणि-हस्तौ, पादौ, मुखं, नासिका, कौँ इत्यादीनि मिलित्वा कार्यं त्यक्तवन्तः।
(ii) उदरस्य कृपया अङ्गानि शक्तियुक्तानि भवन्ति।
(iii) मिलित्वा विचारम् अकुर्वन्-“अहो! अस्माकं प्रमादः। भुक्तस्य अन्नस्य पाचनं तु उदरमेव करोति। एतद् एव अस्मभ्यं शक्तिं ददाति। अस्य कृपया एव वयं जीवामः। अतः अस्माभिः सर्वैः अनेन सह सहयोगः करणीयः”।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘करिष्यामः’ इति क्रियापदस्य कर्तृपदं किम्?
(क) वयमपि
(ख) वयम्
(ग) कार्यम्
(घ) अद्यप्रभृति
उत्तराणि:
(ख) वयम्

(ii) ‘भुक्तस्य’ इति विशेषणस्य विशेष्यपदं किम्?
(क) अन्नस्य
(ख) कार्यस्य
(ग) अन्नकणस्य
(घ) सहयोगस्य
उत्तराणि:
(क) अन्नस्य

(iii) ‘चलौ’ इति पदस्य किं विपर्ययपदम् अत्र प्रयुक्तम्?
(क) हस्तौ
(ख) अचलौ
(ग) निश्चलौ
(घ) पादौ
उत्तराणि:
(ग) निश्चलौ

(iv) अनुच्छेदे ‘सर्वाणि अङ्गानि’ इति कर्तृपदस्य क्रियापदं किम् अस्ति?
(क) अभवन्
(ख) शिथिलानि
(ग) अतिष्ठताम्
(घ) करोति
उत्तराणि:
(क) अभवन्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

संहतिः एव कार्यसाधिका।

गद्यांश 8

चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्। मार्गे तस्य मित्रम् अमिलत् यः तं प्राणमत् परं स दार्शनिक: तस्य उत्तरम् अर्धहोराऽनन्तरमददात् यतः स विचारेषु मग्नः अभवत्। एकदा मित्रस्य एको बन्धुः तेन सह आसीत्। सः स्वभावत: दार्शनिकमनमत् अग्रे च गत्वा अवदत्। “अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र।” दार्शनिक: स्वमित्रं तस्य बन्धुं च सक्रोधमपश्यत्। यथैव दिने दार्शनिकमित्रं तस्य गृहं प्राप्तः तु दार्शनिक: अकथयत्–’तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि।’

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) कः पर्वते अभ्रमत्?
(ii) दार्शनिक: स्वमित्रं कथमपश्यत्?
(iii) मार्गे कः अमिल?
उत्तराणि:
(i) दार्शनिकः
(ii) सक्रोधम्
(iii) मित्रम्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer ina complete sentence only two questions.)

(i) गृहे प्राप्तं स्वमित्रं दार्शनिकः किम् अकथयत्?
(ii) दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा किम् अवदत्?
(iii) कः प्रातः पर्वते अभ्रमत्?
उत्तराणि:
(i) गृहं प्राप्तं स्वमित्रं दार्शनिक: अकथयत् ‘तव बन्धुः तु अधिकमेव वदति, पुनः एनं मम गृहे मा आनय। एषः सर्वान् दर्शयति एतानि सुन्दराणि दृश्यानि’।
(ii) दार्शनिकस्य मित्रस्य बन्धुः अग्रे गत्वा अवदत्-‘अहो कीदृशं शोभनमस्ति प्रभातम्, कीदृशानि मनोमोहकानि सन्ति दृश्यानि अत्र’।
(iii) चीनदेशस्य प्रख्यातः दार्शनिकः ‘हू लाई’ प्रतिदिनं प्रातः पर्वते अभ्रमत्।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘दृश्यानि’ अस्य किं विशेषणम् अनुच्छेदे आगतम्?
(क) सुन्दराणि
(ख) एतानि
(ग) सुन्दरम्
(घ) एतत्
उत्तराणि:
(क) सुन्दराणि

(ii) ‘अवदत्’ अस्याः क्रियायाः कर्तृपदं किम्?
(क) स्वभावतः
(ख) दार्शनिकम्
(ग) अग्रे
(घ) सः
उत्तराणि:
(घ) सः

(iii) अनुच्छेदे ‘असुन्दराणि’ अस्य विपर्ययपदं किम्?
(क) मनोमोहकानि
(ख) मोहकानि
(ग) सुन्दराणि
(घ) उत्तमानि
उत्तराणि:
(ग) सुन्दराणि

(iv) अनुच्छेदे ‘दार्शनिकः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अकथयत्
(ख) आनय
(ग) अवदत्
(घ) अमिलत्
उत्तराणि:
(क) अकथयत्।

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

दार्शनिकस्य चिन्तनम्।

गद्यांश 9

एकस्य भिक्षुकस्य भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः आसन्। सः अवदत्- “भगवन्! दयां कुरु। कथम् अनेन उदरपूर्तिः भविष्यति ।” तदैव अन्यः एक: अभिक्षुकः तत्र आगच्छति वदति च ‘भिक्षां देहि।’ क्रुद्धः प्रथमः भिक्षुकः अगर्जत्-‘रे भिक्षुक! भिक्षुकमेव भिक्षां याचसे । तव लज्जा नास्ति।” द्वितीयः भिक्षुकः उक्तवान्–“तव भिक्षापात्रे अञ्जलिपरिमिताः तण्डुलाः, मम तु पात्रं रिक्तम्। दयां कुरु।” अर्धं देहि । प्रथमः भिक्षुकः तत् न स्वीकृतवान्। द्वितीयः भिक्षुकः पुनः अवदत्- “भोः, कृपणः मा भव। केवलम् एकं तण्डुलं देहि।” प्रथमः भिक्षुकः तस्मै एकम् एव तण्डुलं ददाति। द्वितीये भिक्षुके गते सति प्रथमः भिक्षुकः भिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति। आश्चर्यचकितः शिरः ताडयन् सः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

NCERT Solutions for Class 10 Sanskrit Grammar अपठित-अवबोधनम्

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) कस्य भिक्षुकस्य भिक्षापात्रं रिक्तम् आसीत्?
(ii) धिक् माम्’ इति कः वदति?
(iii) तदैव अन्यः कः तत्र आगच्छति?
उत्तराणि:
(i) द्वितीयस्य
(ii) प्रथमभिक्षुकः
(iii) भिक्षुकः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) प्रथमः भिक्षुकः स्वभिक्षापात्रे किं पश्यति?
(ii) द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते किं ददाति?
(iii) प्रथमः भिक्षुकः किं कथयित्वा पश्चात्तापमकरोत्?
उत्तराणि:
(i) प्रथमः भिक्षुकः स्वभिक्षापात्रे तण्डुलाकारं स्वर्णकणं पश्यति।
(ii) द्वितीयः भिक्षुकः एकस्य तण्डुलस्य कृते तण्डुलाकारं स्वर्णकणं ददाति।
(iii) आश्चर्यचकितः शिरः ताडयन् सः प्रथमः भिक्षुकः पश्चात्तापम् अकरोत्-“धिक माम्। धिक् मम मूर्खताम्।”

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)

(i) ‘क्रुद्धः’ इति कस्य विशेषणम्?
(क) प्रथमस्य भिक्षुकस्य
(ख) भिक्षुकस्य
(ग) प्रथमस्य
(घ) द्वितीयस्य भिक्षुकस्य
उत्तराणि:
(ग) प्रथमस्य भिक्षुकस्य

(ii) प्रथम भिक्षुकः तस्मै एकं तण्डुलं ददाति। अत्र ‘तस्मै’ सर्वनामपदं कस्मै प्रयुक्तम्?
(क) एकम्
(ख) तस्मै
(ग) ददाति
(घ) भिक्षुकः
उत्तराणि:
(ग) ददाति

(iii) ‘स्वीकृतवान्’ इति क्रियापदस्य कर्तृपदम् किम्?
(क) भिक्षुकः
(ख) द्वितीयः भिक्षुकः
(ग) प्रथमः
(घ) प्रथमः भिक्षुकः
उत्तराणि:
(घ) प्रथमः भिक्षुकः

(iv) अनुच्छेदे भरितम् (पूर्णम्) अस्य पदस्य कः विपर्ययः आगतः?
(क) अपूर्णम्
(ख) रिक्तम्
(ग) पात्रम्
(घ) मम
उत्तराणि:
(ख) रिक्तम्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

लोभः पापस्य कारणम्।

गद्यांश 10

एकदा एकः कर्तव्यपरायणः नगररक्षकः इतस्ततः भ्रमन् एकम् अशीतिवर्षीयं महापुरुषम् अपश्यत्। सः आम्रवृक्षस्य आरोपणे तल्लीनः आसीत्। इदं दृष्ट्वा नगररक्षकः तं महापुरुषम् अवदत्-अवलोकनेन प्रतीयते यत् यदा एषः वृक्षः फलिष्यति तदा भवान् जीवितः न भविष्यति। अतः किमर्थं वृथा परिश्रमं कुर्वन्ति भवन्तः? महापुरुषः हसित्वा अवदत्-पश्यन्तु एतान् फलयुक्तान् वृक्षान्। एतेषाम् आरोपणं मया न कृतं परं फलानि अहं खादित्वा सन्तुष्टः भवामि। अतः यदा मम आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति, अहं पुनः प्रसन्नः भविष्यामि। महापुरुषस्य वचनं श्रुत्वा तं स नमस्कृत्य नगररक्षकः उक्तवान्-अनुकरणीया एव सज्जनानां सज्जनता।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) नगररक्षकः कीदृशं महापुरुषम् अपश्यत्?
(ii) सज्जनानां सज्जनता कीदृशी भवति?
(iii) कः हसित्वा अवदत्?
उत्तराणि:
(i) अशीतिवर्षीयं
(ii) अनुकरणीया
(iii) महापुरुषः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) नगररक्षक: अशीतिवर्षीयं महापुरुषं कुत्र अपश्यत्?
(ii) महापुरुषेण आरोपितस्य वृक्षस्य फलानि के खादिष्यन्ति?
(iii) महापुरुषस्य वचनं श्रुत्वा सः नगररक्षकः किम् उक्तवान्?
उत्तराणि:
(i) नगररक्षक: अशीतिवर्षीयं महापुरुषं इतस्ततः भ्रमन् अपश्यत्।
(ii) महापुरुषेण आरोपितस्य वृक्षस्य फलानि अन्ये खादिष्यन्ति।
(iii) महापुरुषस्य वचनं श्रुत्वा तं नमस्कृत्य स:नगररक्षकः उक्तवान्–अनुकरणीया एव सज्जनानां सज्जनता।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)

(i) ‘नगररक्षकः’ इति पदस्य विशेषणपदं किम् अस्ति?
(क) एकदा
(ख) एकः
(ग) कर्तव्यपरायणः
(घ) परायणः
उत्तराणि:
(ग) कर्तव्यपरायणः

(ii) ‘दुर्जनानाम्’ इति पदस्य क: विपर्ययः?
(क) सज्जनानाम्
(ख) महापुरुषणाम्
(ग) जनानाम्
(घ) सज्जननाम्
उत्तराणि:
(क) सज्जनानाम्

(iii) अस्मिन् गद्यांशे भविष्यामि’ इति क्रियापदस्य कर्तृपदं किम्?
(क) पुनः
(ख) प्रसन्नः
(ग) सन्तुष्टः
(घ) अहम्
उत्तराणि:
(घ) अहम्

(iv) अनुच्छेदे ‘दर्शनेन’ इति पदस्य कः पर्यायः लिखितः?
(क) प्रतीयते
(ख) अन्ये
(ग) अवलोकनेन
(घ) आरोपणे
उत्तराणि:
(ग) अवलोकनेन

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

‘अनुकरणीया एव सज्जनानां सज्जनता’ अथवा ‘कर्त्तव्यपरायणता’।

गद्यांश 11

एकस्मिन् वने एकः विशाल: वृक्षः आसीत् । तस्मिन् बहवः खगाः वसन्ति स्म। एकदा ते अतीव बुभुक्षिताः आसन्। अतः भोजनं खादितुम् इतस्ततः भ्रमन्ति स्म। ते दूर-दूरं गच्छन्ति स्म। अन्ते च एकस्मिन् क्षेत्रे तण्डुलकणान् अपश्यन्। ते तत्र गत्वा प्रसन्नतया तण्डुलान् खादन्ति स्म परन्तु जालेन बद्धाः अभवन्। ‘अधुना किं करणीयम्’ इति चिन्तयित्वा ते सर्वे जालेन सह एव एकं स्वमित्रम् उपागच्छन्। तेषां मित्रम् एकः मूषकः आसीत्। सः जालं दन्तैः अकर्तयत्। अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन् अगायन् च-सुखं तु एकतायाम् एव विद्यते।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) विशालवृक्षे के वसन्ति स्म?
(ii) सुखं कुत्र विद्यते?
(ii) खगाः एकस्मिन् क्षेत्रे कान् अपश्यन्?
उत्तराणि:
(i) खगाः
(ii) एकतायाम्
(iii) तण्डुलकणान्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence only two questions.)

(i) खगाः भोजनाय कुत्र भ्रमन्ति स्म?
(ii) मूषकः किम् अकरोत्?
(iii) अन्ते सर्वे किम् अगायन्?
उत्तराणि:
(i) खगाः भोजनाय इतस्ततः भ्रमन्ति स्म।
(ii) मूषकः जालं दन्तैः अकर्तयत्।
(iii) अन्ते सर्वे स्वतन्त्राः भूत्वा अनृत्यन्-अगायन् च-सुखं तु एकतायाम् एव विद्यते।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language-only three questions.)

(i) अस्मिन् गद्यांशे ‘वृक्षः’ किं विशेषणपदं प्रयुक्तम्?
(क) वने
(ख) विशाल:
(ग) एकः
(घ) सः
उत्तराणि:
(ख) विशालः

(ii) अस्मिन् गद्यांशे ‘खादन्ति स्म’ इति क्रियापदस्य कतृपदं किम्?
(क) ते
(ख) मूषकाः
(ग) बहवः
(घ) खगाः
उत्तराणि:
(ख) खगाः

(iii) ‘मुक्ताः’ इति पदस्य अत्र किं विपर्ययपदं प्रयुक्तम्?
(क) स्वतन्त्रताः
(ख) बहवः
(ग) बुभुक्षिताः
(घ) बद्धाः
उत्तराणि:
(घ) बद्धाः

(iv) अनुच्छेदे ‘ते सर्वे’ इति कर्तृपदस्य क्रियापदं किम्?
(क) स्वतन्त्रताः
(ख) वसन्ति स्म
(ग) आसन्
(घ) उपागच्छन्
उत्तराणि:
(घ) उपागच्छन्

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

‘एकतायाम् सुखम्’ अथवा खगाः मूषकः च “सुखं तु एकतायाम् एव विद्यते।”

गद्यांश 12

एकदा राजकुमारः सिद्धार्थः विहाराय उद्यानं गतवान् । अकस्मात् सः क्रन्दनध्वनिम् अशृणोत् । तदैव च एक: हंसः तस्य सम्मुखे भूमौ अपतत् । तं दृष्ट्वा सिद्धार्थः करुणापूर्णः सञ्जातः । पुनश्च स हंसस्य शरीराद् बाणं निष्कास्य यावत्पश्यति तावद् देवदत्तः तत्र समागतः। स सिद्धार्थम् उक्तवान् “भो सिद्धार्थ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।” सिद्धार्थः उच्चैः अवदत्-“न दास्यामि इमम् हंसम्, यतः अहम् अस्य रक्षकः” तौ परस्परम् विवदमानौ राजसभां गतवन्तौ। राजा सर्वम् उदन्तं श्रुत्वा आदिष्टवान्-‘यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति । हंस: तु सानन्दम् सिद्धार्थमेव उपगतः।” उक्तम् हि रक्षकः भक्षकात् श्रेयान्।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) भूमौ कः पतितः आसीत्?
(ii) क: उच्चैः अवदत्?
(iii) सिद्वार्थः विहाराय कुत्र गतवान्?
उत्तराणि:
(i) हंसः
(ii) सिद्धार्थः
(iii) उद्यानम्

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer ina complete sentence only two questions.)

(i) देवदत्तः किम् अवदत्?
(ii) राजा किम् आदिष्टवान्?
(iii) संसारे किम् उक्तम्?
उत्तराणि:
(i) देवदत्तः अवदत्-‘भो सिद्धार्थ ! एषः हंसः मया हतः, अतः इमं हंसं मह्यं देहि।”
(ii) राजा आदिष्टवान्–“यस्य समीपे हंस: गमिष्यति स तस्यैव भविष्यति।”
(iii) संसारे उक्तम् हि रक्षकः भक्षकात् श्रेयान्।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) अत्र ‘गमिष्यति’ इति क्रियापदस्य कर्तृपदं किम्?
(क) समीपे
(ख) यस्य
(ग) हंसः
(घ) नृपः
उत्तराणि:
(ग) हंसः

(ii) ‘सहसा’ इति अव्ययस्य कः पर्यायः?
(क) अकस्मात्
(ख) सः
(ग) उच्चैः
(घ) यतः
उत्तराणि:
(क) अकस्मात्

(iii) ‘सिद्धार्थः करुणापूर्णः’ अनयोः पदयोः विशेषणं किम्?
(क) सिद्धार्थः
(ख) करुणापूर्णः
(ग) सिद्धार्थ
(घ) करुणा
उत्तराणि:
(ख) करुणापूर्णः

(iv) अनुच्छेदे ‘परोक्षे’ इति पदस्य कः विपर्ययः?
(क) उच्चैः
(ख) अकस्मात्
(ग) सहसा
(घ) सम्मुखे
उत्तराणि:
(घ) सम्मुखे

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

सिद्धार्थस्य दयालुता अथवा राजकुमारः सिद्धार्थः।

गद्यांश 13

अस्माकं विद्यालयः राजकीयः विद्यालयः अस्ति। अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति एव, युगपदेव क्रीडानामपि सुलभा व्यवस्था अस्ति। अतएव अस्माकं विद्यालयस्य सर्वासां कक्षाणां परिणाम: शतप्रतिशतं भवति। क्रीडानां प्रतियोगितासु अपि अस्माकं विद्यालयस्य छात्राः बहुन् पुरस्कारान् अलभन्त। अस्माकं विद्यालयस्य वार्षिकोत्सवः परह्यः सम्पन्नो जातः। तदा अस्माकं राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्। यदैव मुख्यातिथि: द्वारं सम्प्राप्तः छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतमाचरन्। ततः सः मञ्चस्य सम्मुखे आसनं भूषितवान्।

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) अस्माकं विद्यालयः कीदृशः अस्ति?
(ii) परीक्षापरिणामः कीदृशः अस्ति?
(iii) परह्यः विद्यालये कः सम्पन्न जातः?
उत्तराणि:
(i) राजकीयः
(ii) शतप्रतिशतं
(iii) वार्षिकोत्सवः

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) वार्षिकोत्सवे मुख्यातिथिः कः आसीत्?
(ii) मुख्यातिथौ आगते छात्राः किम् अकुर्वन्?
(iii) अत्र पठनस्य कीदृशी व्यवस्था अस्ति?
उत्तराणि:
(i) वार्षिकोत्सवे राज्यस्य राज्यपाल: मुख्यातिथिः आसीत्।
(ii) मुख्यातिथौ आगते छात्रा: वाद्ययन्त्राणां ध्वनिना तस्य स्वागतम् आचरन् (अकुर्वन्)।
(iii) अत्र पठनस्य तु श्रेष्ठा व्यवस्था अस्ति।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन प्रश्नों के ही। Work of Language only three questions.)

(i) ‘व्यवस्था’ इति पदस्य किं विशेषणम्?
(क) युगपत्
(ख) युगपदेव
(ग) श्रेष्ठा
(घ) क्रीडानाम्
उत्तराणि:
(ग) श्रेष्ठा

(ii) ‘जातः’ इत्यस्य विलोमपदं किम्?
(क) अस्ति
(ख) भवति
(ग) आसीत्
(घ) आचरन्
उत्तराणि:
(ख) भवति

(iii) अस्मिन् गद्यांशे ‘आचरन्’ इति क्रियायाः कर्तृपदं किम्?
(क) मुख्यातिथि:
(ख) स्वागतम्
(ग) छात्राः
(घ) तस्य
उत्तराणि:
(ग) छात्राः

(iv) अनुच्छेदे ‘छात्राः’ इति कर्तृपदस्य क्रियापदं किम्?
(क) अलभन्त
(ख) भूषितवान्
(ग) अस्ति
(घ) भवति
उत्तराणि:
(क) अलभन्त

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छेद के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

“अस्माकं विद्यालयः” अथवा “विद्यालयस्य वार्षिकोत्सवः।।”

गद्यांश 14

सत्सङ्गतेः महिमानं को न जानाति? संसारे सज्जनाः अपि दुर्जनाः अपि सन्ति। दुर्जनस्य संगतिं कोऽपि कर्तुं न इच्छति। अपरत्र सत्संगं विना मानवस्य जीवनम् एव दुर्जीवनं भवति। वस्तुतः सत्संगतिः जनानां पोषिका कुसंगतिश्च नाशिका। सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति। अतः सत्संगतिः एव श्रेयसी। सज्जना: तु स्वगुणैः एव सन्तः कथ्यन्ते, अतएव जनाः सज्जनानां गुणेभ्यः स्पृह्यन्ति। सद्गुणेनैव जनः मनसा वाचा कर्मणा स्वस्थो भवति। तेन तस्य आयुः वर्धते, यशः अपि सततं वर्धते। को न जानाति यत् सर्वेषां देशानां महापुरुषाः अपि सत्संगत्या श्रेष्ठां पदवी प्राप्नुवन्। उक्तं हि भवभूतिना-‘सत्संगजानि निधनान्यपि तारयन्ति।’

प्रश्न I.
एकपदेन उत्तरत (केवलं प्रश्नद्वयमेव)। (एक पद में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in one word only-only two questions.)

(i) सत्संगतिं विना जीवनं किं भवति?
(ii) कुसंगतिः कीदृशी?
(ii) कस्याः महिमानं को न जानाति?
उत्तराणि:
(i) दुर्जीवनम्
(ii) नाशिका
(iii) सत्संगते:

प्रश्न II.
पूर्णवाक्येन उत्तरत (केवलं प्रश्नद्वयमेव)। (पूर्ण वाक्य में उत्तर दीजिए-केवल दो प्रश्नों के ही। Answer in a complete sentence-only two questions.)

(i) संसारे कीदृशाः जनाः सन्ति?
(ii) भवभूतिना किम् उक्तम्?
(ii) सर्वे जनाः किम् इच्छन्ति किं वा न?
उत्तराणि:
(i) संसारे सज्जनाः दुर्जनाश्च जनाः सन्ति।
(ii) भवभूतिना उक्तम्- “सत्संगजानि निधनान्यपि तारयन्ति।”
(iii) सर्वे जनाः स्वपोषमेव इच्छन्ति विनाशं तु न इच्छन्ति।

प्रश्न III.
भाषिककार्यम् (केवलं प्रश्नत्रयमेव)। (भाषा संबंधी कार्य-केवल तीन के ही। Work of Language only three questions.)

(i) ‘कुसंगतिः’ पदस्य किं विपर्यय पदं गद्यांशे लिखितम्?
(क) सत्संगतेः
(ख) सत्संगतिः
(ग) सद्गुणेन
(घ) दुस्संगति
उत्तराणि:
(ख) सत्संगतिः

(ii) ‘जनाः गुणेभ्यः स्पृह्यन्ति’ अत्र कर्तृपदं किम्?
(क) जनाः
(ख) गुणः
(ग) गुणेभ्यः
(घ) स्पृह्यन्ति
उत्तराणि:
(क) जनाः

(iii) ‘श्रेष्ठां पदवीम्’ अनयोः विशेषणं किम्?
(क) पदवी
(ख) पदवीं
(ग) श्रेष्ठा
(घ) श्रेष्ठाम्
उत्तराणि:
(घ) श्रेष्ठाम्

(iv) अनुच्छेद ‘दुष्टाः’ इति पदस्य कः पर्यायः वर्तते?
(क) दुर्जनाः
(ख) दुर्जीवनम्
(ग) सज्जनाः
(घ) कर्मणा
उत्तराणि:
(क) दुर्जनाः

प्रश्न IV.
अस्य अनुच्छेदस्य कृते समुचितं शीर्षकं लिखत। (इस अनुच्छदे के लिए समुचित शीर्षक लिखिए। Write a suitable title for this paragraph.)
उत्तराणि:

सत्सङ्गतिः।

NCERT 10th Sanskrit Grammar, class 10 Sanskrit Grammar solutions

NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): Download PDF

NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): अपठित-अवबोधनम्

Download PDF: NCERT Solutions for Class 10 Sanskrit Grammar (खण्डः ‘क’): अपठित-अवबोधनम् PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit Grammar :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.