Class 10: Sanskrit (Bhav) Chapter 3 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 3 Notes.
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 3-अनुच्छेदलेखमन्
NCERT 10th Sanskrit (Bhav) Chapter 3, class 10 Sanskrit (Bhav) Chapter 3 solutions
श्रवण-भाषण-कौशल-विकासार्थम् (पृष्ठ 20)
प्रश्न 1.
अधोलिखितविषयानधिकृत्य पञ्चवाक्यात्मकमनुच्छेदं लिखत्
(1) भूकम्पविभीषिका
(ii) पर्वतारोहणम्
(iii) पर्यावरणसंरक्षणम्
(iv) गृहकार्य कियत् उपयोगी?
(v) मम जीवनलक्ष्यम्
(vi) हास्योपचारः
(vii) ग्राम्यजीवनम्
(viii) जलसंरक्षणस्य उपायाः
(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
(x) क्रीडाप्रतियोगिता
उत्तर:
(i) भूकम्पविभीषिका
भूमेः विभिन्नकारणेभ्यः सम्पन्नम् कम्पनम् भूकम्पः कथ्यते। भूकम्पेन क्षणेनैव भवनानि धराशायीनि भवन्ति। ध्वस्तभवनेषु पीडिताः जनाः सहायतार्थं क्रन्दन्ति। विवशाः प्राणिनः निहन्यते। क्षुत्क्षामकण्ठाः मृतप्रायाः केचन जनाः तु ईश्वरकृपया द्वित्राणि दिनानि एव जीवनं धारितवन्तः। विद्युद्दीपस्तम्भाः मार्गाः च विशीर्णाः जाताः। भूकम्पेन महाविनाशस्य दृश्यं समुत्पद्यते।
(ii) पर्वतारोहणम्
‘पर्वतारोहणं’ इति पदस्य आशयः तेन क्रीडया, व्यवसायेन प्रबललालसया वा अस्ति यस्मिन् पर्वतेषु आरोहणम्, स्कीइंगम् सुदूरं भ्रमणं च सम्मिलितानि सन्ति। अविजितपर्वतशिखरेषु विजयं प्राप्तम जनाः पर्वतेष आरोहयन्ति। हिमेन आच्छादितनगेष आरोहणकलायाम् सुरक्षितः भवितुम् अनुभवस्य, शारीरिकक्षमतायाः तकनीकीज्ञानस्य च आवश्यकता भवति। एतदर्थम् सकले विश्वे अनेकाः संस्थाः स्थापिताः सन्ति। भारतस्य हिमालये तु अनेके पर्वतारोहिणः सफलताम् आप्नुवन्।
(iii) पर्यावरणसंरक्षणम्
प्रकृतिः सर्वेषाम् प्राणिनां संरक्षणाय यतते। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् मानवेभ्यः सर्वसुखं प्रददाति। जलप्लावनैः अग्निभयैः, भूकम्पैः वात्याचक्रैः च सन्तप्तस्य मानवस्य कुतः मङ्गलम्। अतएव अस्माभिः सर्वप्रकारेण प्रकृतिः रक्षणीया तेन च पर्यावरणं रक्षितं भविष्यति। स्वार्थान्धः मानवः पर्यावरणं नाशयति। वृक्षकर्तनात् शुद्धवायुः अपि सङ्कटापन्नो जातः। दूषित पर्यावरणे विविधाः रोगाः भीषणसमस्याः च जायन्ते। अतः प्रकृतिरक्षया एव लोकरक्षा सम्भवति इति न संशयः।
(iv) गृहकार्य कियत् उपयोगी?
गृहकार्य उपयोगी अनुपयोगी वा इति आधुनिके शिक्षाक्षेत्रे चर्चायाः विषयः सञ्जातः। वस्तुतः गृहकार्य छात्राणाम् कृते समयस्य अपव्ययः न, अपितु तेषाम् सहायकम् एव अस्ति। गृहकार्यं छात्रेभ्यः पाठानाम् पुनारावृत्यै गूढज्ञानार्थं च आवश्यकं वर्तते। छात्राणाम् क्रियात्मकं कौशलं वर्धनाय अपि गृहकार्यम् उपयोगी अस्ति। बालकानाम् बौद्धिकविकासाय, सर्वांगीण विकासाय स्मृतिवर्धनाय च निश्चितरूपेण गृहकार्यम् अनिवार्यम् अस्ति।
(v) मम जीवनलक्ष्यम्
जीवनलक्ष्यं प्रति कटिबद्धता मनुष्यं पतनात् रक्षति। यदि लक्ष्यं उच्चम् भवति तदा अस्माकम् जीवनम् अपि उन्नतम् भवति। वयं जीवने लोकोपकारकं लक्ष्यं स्वीकुर्याम। कालं निष्प्रयोजनम् व्यतीतं न करणीयम्। तदैव वयं महत् कार्य साधयितुम् शक्नुमः। यदा मानवः सत्कर्मसु तत्परः भवति, जीवनलक्ष्यं निश्चित्य अधिकं परिश्रमं करोति तदा तस्य शक्तिं वर्धते, शक्तिवर्धकाः भावाः विलसन्ति विनाशकारकाः भावाः च नश्यन्ति। उच्चैः जीवनलक्ष्यैः एव जीवनं कमलवत् सुगन्धितं भवति।
(vi) हास्योपचारः
हर्षस्य अभिव्यक्त्याः माध्यमः हास्यः एव अस्ति। वस्तुतः हास्यः मानवेभ्यः स्वास्थ्यवर्धकौषधिरूपेण कार्यं करोति। हास्यः शारीरिकस्वास्थ्याय मानसिकस्वास्थ्याय च आवश्यकः अस्ति। मानसिकतनावं दूरीकरोति दु:खानाम् च विस्मरणं कृत्वा मनुष्येषु नवस्फूर्तिः नवचेतनाः च हास्येन एव जागरिताः भवन्ति। हसनेन रक्तस्य गतिः वर्धयति। अद्यत्वे तनावपूर्ण वातावरणे हास्योपचारः सरलतमः योगः वर्तते। सम्पूर्ण विश्वे हास्योपचाराय हास्ययोगस्य अनेकानि संगठनानि सन्ति। प्रात:काले जनाः उपवनेषु क्षेत्रेषु वा मिलित्वा सामूहिकरूपेण उच्चस्वरैः हसन्ति निरोगाः सुखिनः च भवन्ति।
(vii) ग्राम्यजीवनम्
ग्रामः हि ईश्वरकृतः नगरं च मानवकृतम् अस्ति। ग्रामेषु यथा स्वाभाविकं सुखदं सौन्दर्यम् भवति तथा नगरेषु न। प्रायः ग्रामीणाः स्वस्थाः महाकायाः च भवन्ति। ग्रामीणाः स्वयमेव समये-समये मनोरञ्जनार्थम् अभिनयादिकं कुर्वन्तः आनन्दम् अनुभवन्ति। ते सदैव उद्यमशीलाः, सौम्याः धार्मिका; च भवन्ति। ते परिश्रमेण विविधानि अन्नानि शाकानि फलानि च उत्पादयन्ति। अधुना ग्रामाणाम् उन्नत्यै विकासाय च सर्वकारः सन्नद्धः सतर्क: च अस्ति। आशासे, भविष्ये ग्रामाः प्रशस्ताः विकसिताः च भविष्यन्ति।
(viii) जलसंरक्षणस्य उपायाः
जीवनाय जलम् आवश्यकम् अस्ति। इदानीं रासायनिकतत्वैः भूमिगतं जलं, नदीनाम् जलं प्रदूषितं भवति। स्वच्छपेयजलस्य अभावो वर्तते। जलसंरक्षणार्थं अस्माभिः प्रयासाः करणीयाः। एतदर्थं जनजागरणम् आवश्यकम् सिंञ्चन साधनेषु परिवर्तनमपि करणीयम्। एकत्रीकृतां मृतिकां जलम् च संरक्षयितुम् कुण्डस्य कूपस्य च निर्माणं कर्तुम् शक्नोति। निर्मितं कुण्डं, यस्मिन् एकत्रं वर्षायाः जलं भूजलस्य आपूत्यै मानवेभ्यः वरदानम् एव भविष्यति। कूपनिर्माणमपि एक महत्त्वपूर्ण पदम् अस्ति।
(ix) विद्यालयस्य उन्नत्यै छात्राणां सहयोगः
छात्राः देशस्य समाजस्य च कर्णधाराः भवन्ति। छात्राणाम् स्वाध्याय, चिन्तनं मननं च तेषाम् शिष्टाचारः विद्यालयस्य देशस्य च प्रगते: सूचकाः सन्ति। चेत् कस्यचित् विद्यालयस्य छात्राः अनुशासिताः प्रतिभासम्पन्नाः च सन्ति तदा तस्य विद्यालयस्य उन्नत्यै तेषाम् योगदानमपि महत् भवति। स्वदेशस्य अभ्युत्थानाय समाजोद्धाराय च आत्मनं योग्यं कर्तुम् अध्ययने चरित्र-निर्माणे च महान् प्रयासः सर्वैः योग्यैः छात्रैः क्रियते। तेषाम् सर्वांगीणविकासे विद्यालयस्य महती भूमिका वर्तते। एवमेव योग्यछात्रैः विद्यालयः अपि ख्यातिप्राप्तः जातः।
(x) क्रीडाप्रतियोगिता
विगतमासे दिल्लीनगरे यमुनायां तरण-प्रतियोगिता अभवत्। यमुनायाः द्वयोः तटयोः महान् सम्मर्दः आसीत्। उभयोः विद्यालययोः व्यायाम-शिक्षको स्व-स्वपक्षस्य उत्साहवर्धनम् अकुरुताम्। सर्वेऽपि छात्राः द्वाभ्यां हस्ताभ्याम् तीव्रतरेण वेगेन तरन्ति स्म। पञ्चदश-मिनट-परिमिता एषा प्रतियोगिता आसीत्। अन्ते रामजसविद्यालयस्य समर्थः प्रथमः अतिष्ठत्, विवेकानन्दविद्यालयस्य कृष्णः च द्वितीयः। तदा शिक्षानिर्देशकमहोदयः ताभ्यां पुरस्कारौ अयच्छत्। एवं तरण-प्रतियोगिता समाप्ता अभवत्।
NCERT 10th Sanskrit (Bhav) Chapter 3, class 10 Sanskrit (Bhav) Chapter 3 solutions
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 3: Download PDF
NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 3-अनुच्छेदलेखमन्
Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 3-अनुच्छेदलेखमन् PDF
Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :
- Chapter 1-अपठितावबोधनम्
- Chapter 2-पत्रलेखनम्
- Chapter 3-अनुच्छेदलेखमन्
- Chapter 4-चित्रवर्णनम्
- Chapter 5-रचनानुवादः (वाक्यरचनाकौशलम्)
- Chapter 6-सन्धिः
- Chapter 7-समासा:
- chapter 8-प्रत्यया:
- Chapter 9-अव्ययानि
- Chapter 10-समय:
- Chapter 11-वाच्यम्
- Chapter 12-अशुद्धिसंशोधनाChapter 13-मिश्रिताभ्यासः
- Sanskrit : आदर्शप्रश्नपत्रम्
About NCERT
The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.