NCERT Secondary (10th) Private Session 2025-26 Free Open Access

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13-मिश्रिताभ्यासः

Class 10: Sanskrit (Bhav) Chapter 13 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 13 Notes. NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13-मिश्रिताभ्यासः NCERT 10th Sanskrit (Bhav)...

Curriculum NCERT
Applicable Grade Class 10
Medium English & Hindi
Resource Format Chapter Q&A / PDF

Textbook Solutions & Academic Guide

Verified chapter-wise solutions, answers, and study notes

Curriculum & Exam Preparation Note: Regular practice of NCERT textbook exercises and chapter-end questions establishes strong conceptual clarity for primary and secondary examinations.

Class 10: Sanskrit (Bhav) Chapter 13 solutions. Complete Class 10 Sanskrit (Bhav) Chapter 13 Notes.

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13-मिश्रिताभ्यासः

NCERT 10th Sanskrit (Bhav) Chapter 13, class 10 Sanskrit (Bhav) Chapter 13 solutions

अभ्यासः-I (पृष्ठ 94-95)

प्रश्न 1.
अधोलिखितम् अनुच्छेद पठित्वा प्रश्नान् उत्तरत

I. एकपदेन उत्तरत
(क) कः हतोत्साहः अभवत्?
(ख) असफलतायाः कारणात् सुवीरस्य मनसि कस्य भावना जागृता?
(ग) पिपीलकः भित्तौ किं प्राप्नोति?
(घ) सुवीरः पुनः पुनरभ्यासेन किं स्थान प्राप्तवान्?
उत्तर:
(क) सुवीरः
(ख) आत्मघातस्य
(ग) मिष्टान्नम्
(घ) विशिष्टम्

II. पूर्णवाक्येन उत्तरत
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् किं चिन्तयति?
(ख) के वसुधायां वसूनि प्राप्नुवन्ति?
उत्तर:
(क) सुवीरः आत्मघातस्य भावनां निन्दयन् चिन्तयति यत् यदि एषः पिपीलक: सततप्रयासेन सफल: भवितुम् शक्नोति तर्हि न किमपि असम्भवं जगति।
(ख) परिश्रमशीला: वीराः एव वसुधायां वसूनि प्राप्नुवन्ति।

III. यथानिर्देशम् उत्तरत
(क) ‘सः अन्ततः भित्तिम् आरोहति’- अत्र किम् अव्यय-पदम्?
(ख) ‘संसारे’ इति पदस्य किं समानार्थकपदम् अनुच्छेदे प्रयुक्तम्?
(ग) ‘तस्य विवेकः जागृतः अभवत्’-अत्र किं कर्तृपदम्?
(घ) ‘वसुधायां बहूनि वसूनि सन्ति’-अत्र किं विशेषणपदम्?
उत्तर:
(क) अन्ततः
(ख) जगति
(ग) विवेकः
(घ) बहूनि

प्रश्न 2.
‘आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति’ एतद्विषयम् अधिकृत्य एकम् लघुम् अनुच्छेदं लिखत (पृष्ठ 95)
उत्तर:

आत्मघातः कस्याः अपि समस्यायाः समाधानं न भवति मानवस्य जीवने असफलतायाः कारणात् आत्मघातस्य भावना जागृता भवति। परम् आत्मघातः कस्याः अपि समास्यायाः समाधानं न भवति बल्कि अनेन समस्या वर्धते। ईश्वरेण प्रदत्तम् अमूल्यं सुन्दरं जीवनं किमर्थं नैराश्यणेन समाप्तम् करणीयम्? यदि जीवने काऽपि समस्या भवेत् तर्हि तस्याः निवारणाय जीवने च साफल्यं लब्धुम् अधिकतराः प्रयासाः कर्तव्याः। जगति किमपि असम्भवं नास्ति। एतद् विचार्य सततप्रयासेन सफलः भवितुम् शक्नोति।

प्रश्न 3.
“पठनस्य के लाभाः’ इति वर्णनं कुर्वन्तः मित्रं प्रति पत्रमेकं लिखत (पृष्ठ 95)
उत्तर:

दिल्लीतः
दिनाङ्कः 16-7-2020

प्रिय मित्र शंकर!
सस्नेहं नमोनमः।
अत्र कुशलं तत्रास्तु। तव पत्रेण मया ज्ञातम् यत् गतपरीक्षायां तव परीक्षाफलम् उत्तमम् नासीत्। एतद् ज्ञात्वा अहम् चिन्ताकुलः अस्मि। अस्मिन् पत्रे अहम् तुभ्यं पठनस्य अभ्यासस्य च महत्त्वम् वर्णयामि। मित्र! जीवने शिक्षायाः अतिमहत्त्वम् अस्ति।
त्वम् मनोयोगेन पठनं कुरु। कक्षायाम् पाठितस्य पाठस्य प्रतिदिनं पुनरावृतिः अत्यावश्यकी। पठनस्य सुरुचिं पोषयितुम्, ज्ञानपिपासां शमयितुं ज्ञानविज्ञानस्य विकासाय च योग्यं साहित्यं साहाय्यं भवति। त्वया महापुरुषाणाम् उपदेशपूरकानि पुस्तकानि पठितव्यानि। तेषाम् पठनेन त्वम् न केवलं जीवने सफलः भवे: अपितु सदाचारी देशभक्तः चापि। अतः सुरुचिकरं पठनं अवश्यमेव कर्त्तव्यम्। त्वम् दृढनिश्चयेन कठोरपरिश्रमेण अध्ययनेन च भविष्ये शोभनान् अङ्कान् एव प्राप्स्यसि इति मे आशा अस्ति। गृहे सर्वेभ्यः मम प्रणामाञ्जलिः निवेदनीया।
भवतः
मित्रम् वासुदेवः

प्रश्न 4.
सन्धिच्छेदः सन्धिः वा क्रियताम् (पृष्ठ 95)

(i) हतोत्साहः — हत + उत्साहः
(ii) विवेक:+जागृतः — विवेको जागृतः
(iii) स:+अन्ततः — सोऽन्ततः
(iv) एतद्विचिन्त्य — एतत् + विचिन्त्य

प्रश्न 5.
समासं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत

(i) सुवीरः हतः उत्साहः यस्य सः भूत्वा एकस्मिन् कोणे तिष्ठति।
उत्तर:
सुवीरः हतोत्साहः भूत्वा एकस्मिन् कोणे तिष्ठति।

(ii) तस्य मनसि आत्मघातस्य भावना जागृता।
उत्तर:

तस्य मनसि आत्मनः घातस्य भावना जागृता।

(iii) सः अभ्यासं कुर्वन् कक्षायां विशिष्ट स्थान प्राप्तवान्।
उत्तर:

सः अभ्यासं कुर्वन् कक्षायां विशिष्टस्थान प्राप्तवान्।

(iv) वत्स! वीरैः भोग्या वसुन्धरा।
उत्तर:

वत्स! वीरभोग्या वसुन्धरा।

प्रश्न 6.
उचित-प्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत

(i) पठनम् अरुचिकर मनमानाः (मन्+शानच्) छात्राः सफलाः न भवन्ति।
(ii) सततप्रयासेन मन्दोऽपि सफलः भवितुम् (भू+तुमुन्) शक्नोति।
(iii) अस्मिन् वर्षे अहम् कक्षायां विशिष्ट स्थान प्राप्तवान् । -(प्र+आप+क्तवतु)
(iv) पुनः पुनः पतित्वा अपि हतोत्सहितः न भवितव्यम् । (भू+तव्यत्)

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनम् कृत्वा लिखत

(i) सुवीरः एकस्मिन् कोणे तिष्ठति। — सुवीरेन एकस्मिन् कोणे स्थीयते।
(ii) पिपीलक: अन्तत: भित्तिम् आरोहति। — पिपीलकेन अन्ततः भित्तिम् आरोह्यते
(ii) शिक्षकेण तस्य प्रशंसा क्रियते। — शिक्षकः तस्य प्रशंसां करोति।
(iv) परिश्रमशीलैः वीरैः एव वसूनि प्राप्यन्ते। — परिश्रमशीला: वीराः एव वसूनि प्राप्नुवन्ति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत

(i) उसका विवेक जागृत हो जाता है। — तस्य विवेकः जागृतः भवति।।
(ii) उसने वृक्ष पर चढ़ते हुए साँप को देखा। — सः वृक्षम् आरोहन्तम् सर्पम् अपश्यत्।
(ii) हमें पुनः पुनः पाठों का अभ्यास करना चाहिए। — वयम् पुनः पुनः पाठानाम् अभ्यासं कुर्याम।
(iv) मुझे पढ़ना अच्छा लगता है। — मह्यम् पठनम् रोचते।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत (पृष्ठ 97)

(i) बालकः एकस्मिन् कोणे तिष्ठति। — बालक: कक्षस्य एकस्मिन् कोणे तिष्ठति।
(ii) सः भित्तिम् आरोहन्तं पिपीलकं पश्यति। — सः भित्तिम् आरोहन्तं एकं पिपीलकं पश्यति।
(iii) वसुधायां बहूनि वसूनि सन्ति। — वसुधायां बहूनि वस्तूनि सन्ति।
(iv) अहम् उत्साहितः भूत्वा तत्रागच्छम्। — उत्साहितः भूत्वा अहम् तत्र अगच्छम्।

अभ्यासः-II (पृष्ठ 97-98)

प्रश्न 1.
लिखितमनुच्छेद पठित्वा निर्देशानुसारं प्रश्नान उत्तरत

I. एकपदेन उत्तरत
(क) प्रसादे केषां हानिः भवति?
(ख) ये समस्यायां प्राप्तायां केवलं हाहाकारं कुर्वन्ति तेषां दुःखेषु किं भवति?
उत्तर:
(क) सर्वदुःखानाम्
(ख) वृद्धिः

II. पूर्णवाक्येन उत्तरत
(क) प्रतिकूलपरिस्थिती: विरुध्य के विजयम् अधिगच्छन्ति?
(ख) किं कदापि न कर्तव्यं किम् च न त्याज्यम्?
उत्तर:
(क) विपरीतपरिस्थितिषु ये धैर्य न त्यजन्ति ते सर्वदा आन्तरिकप्रसन्नतायाः माध्यमेन प्रतिकूल-परिस्थिती: विरुध्य विजयम् अधिगच्छन्ति।
(ख) विषादः कदापि न कर्त्तव्यः, प्रसन्नता च कदापि न त्याज्या।

III. निर्देशानुसारम् उत्तरत (पृष्ठ 98)
(क) ‘पराजयम्’ इति पदस्य किं विलोमपदं गद्यांशे प्रयुक्तम्?
(ख) ‘तेषाम् दुःखेषु वृद्धिः भवति’ इति वाक्यांशे ‘भवति’ इति क्रियापदस्य कर्तृपदं किम् अस्ति?
(ग) ‘सर्वेषाम्’ इति सर्वनामपदम् अत्र केभ्यः प्रयुक्तम्?
(घ) ‘स्वस्य’ इति पदस्य किं पर्यायपदम् अत्र आगतम्?
उत्तर:
(क) विजयम्
(ख) वृद्धिः
(ग) दु:खेभ्यः
(घ) आत्मनः

IV. गद्यांशस्य कृते समुचितं शीर्षकं लिखत।
उत्तर:

‘मनसः प्रसन्नता अत्यावश्यकी’

प्रश्न 2.
प्रसन्नतायाः महत्त्वविषये पञ्चवाक्यमितम् अनुच्छेदं सरलसंस्कृतेन लिखत (पृष्ठ 98)
उत्तर:

अनुच्छेदः-मानवः जीवने सर्वविधं सुखं वाञ्छति। यदि मनः प्रसन्नं भवति तदैव सुखं भवति। मनः सन्तोषेण प्रसन्न भवति अन्यथा लालसा वर्धते सुखम् च नश्यति। अस्माकं वाण्याम् यदि माधुर्यम् भवेत् तदा मनः अपि प्रसन्नं भवति। परितुष्टे मनसि जीवन सुखमयं प्रसन्नमयं आनन्दमयं च भवति। सर्वेषाम् दुःखानाम् अभावस्य कृते मनसः प्रसन्नता
अनिवार्या अस्ति। सदाचारं पालनेन, अन्येषां सेवाभावनया सकारात्मकविचारैः मनः प्रसन्नं भवति।

प्रश्न 3.
गृहे पितुः रुग्णतायाः कारणेन भवतः/भवत्याः मित्रम् दुःखितः अस्ति। तं सान्त्वयन् पत्रमेकं सरलसंस्कृतेन लिखत

दिल्लीत:
दिनाङ्कः ………………
प्रिय मित्र माधव।
सप्रेम नमोनमः
अत्र सर्वविधं कुशलम्, तत्र कुशलम् ईश्वरं प्रार्थये। अद्यैव भवतः पत्रात् मया ज्ञातम् यत् गृहे तव पिता रुग्णः अस्ति अतः त्वम् पितुः रुग्णतायाः कारणेन दुःखितः असि। त्वम् जानासि यत् मम पितृमहोदयः प्राकृतिक: चिकित्सकः अस्ति। अहम् तेन सह तव पितुः रुग्णतायाः विषये चर्चा कृतवान्। तेन स्वास्थ्यरक्षणाय ये निर्देशाः दत्ताः, तान् अहम् संक्षेपेण लिखामि।
(1) प्रातः सूर्योदयात् पूर्वं उत्थाय प्रतिदिनं भ्रमणं व्यायामः च करणीयः।
(2) पौष्टिकं स्वल्पं च आहारं कर्त्तव्यम्।
(3) प्रतिदिनं पर्याप्तम् जलं पातव्यम् परम् भोजनेन सह जलं न पानीयम्।
(4) भोजनं शनैः शनैः चर्वणपूर्वकम् प्रसन्नमनसा भक्षणीयम्।
(5) रात्रौ दशवादने शयितव्यम्।
आशा अस्ति तव पित्रा एताः नियमाः पालनीयाः। एवमेव सः शीघ्रमेव स्वस्थः भविष्यति चिन्ता मा करणीया। समये-समये पितः स्वास्थ्यविषये त्वया अवश्यमेव सूचनीयम्। सर्वेभ्यः मम प्रणामाः कथनीयाः।
भवत: मित्रम्
शिवः

प्रश्न 4.
अधोलिखितवाक्येषु रेखांकितपदानि अधिकृत्य सन्धिं/सन्धिविच्छेद कुरुत (पृष्ठ 99)

(i) हाहाकारेण तु दु:खेषु वृद्धिः+एव भवति। — वृद्धिरेव
(ii) मनसः प्रसन्नता तु अत्यावश्यकी। — अति + आवश्यकी
(iii) कः + अपि दु:खं नैव इच्छति। — कोऽपि
(iv) विषादः कदापि न कर्तव्यः। — कदा + अपि
(v) वृद्धानां सेवां कृत्वा प्रसन्नो भव। — सेवाम् + कृत्वा
(vi) वयं सर्वे सुखम्+इच्छामः। — सुखमिच्छामः

प्रश्न 5.
रेखांकितपदानां समस्तपदं विग्रहं वा कृत्वा वाक्यानि पुनः लिखत

(i) दु:खानां विनाशः कथं भवति इति ज्ञातव्यम्।
उत्तर:
दुःखविनाशः कथं भवति इति ज्ञातव्यम्।

(ii) नीतिषु लाभालाभौ न विचारणीयौ।
उत्तर:

नीतिषु लाभः च अलाभः च न विचारणीयौ।

(iii) दुःखानाम् अभावः मनसः प्रसन्नतायै आवश्यकः।
उत्तर:

निर्दुःखम् मनसः प्रसन्नतायै आवश्यकः।

प्रश्न 6.
उचितप्रत्ययप्रयोगेण रिक्तस्थानानि पूरयत

(i) दु:खानां विनाशस्य उपायं ज्ञा+तव्यत्। — ज्ञातव्यम्
(ii) प्रियजनस्य रुग्णता दु:खदायिका। — रुग्ण + तल्
(iii) रोगं दृष्ट्वा केवलं हाहाकारं न कर्त्तव्यम्। — दृश् + क्त्वा
(iv) त्वं प्रतिकूलपरिस्थिती वि + रुध् + ल्यप् विजयं प्राप्नुहि। — विरुध्य

प्रश्न 7.
प्रदत्तवाक्यानां वाच्यपरिवर्तनं कृत्वा लिखत (पृष्ठ 99)
(i) गीतायां श्रीकृष्णः अर्जुनं प्रति कथयति।
उत्तर:

गीतायां श्रीकृष्णेन अर्जुनः कथ्यते।

(ii) वयं सर्वे सुखम् इच्छामः।
उत्तर:

अस्माभिः सर्वैः सुखम् इष्यते।

(iii) विनम्रजनः पितरं सेवते।
उत्तर:

विनम्रजनेन पिता सेव्यते।

(iv) पुत्रेण औषधिना पितुः रोगविनाशस्य प्रयत्न क्रियते।
उत्तर:

पुत्रः औषधिना पितुः रोगविनाशस्य प्रयत्नं करोति।

प्रश्न 8.
प्रदत्तवाक्यानां संस्कृतभाषया अनुवादं कुरुत
(i) हम सभी सुख चाहते हैं।
उत्तर:

वयम् सर्वे सुखम् वाञ्छामः।

(ii) मन की प्रसन्नता कभी नहीं छोड़नी चाहिए।
उत्तर:

मनसः प्रसन्नता कदापि न त्यक्तव्या।

(iii) गीता में श्रीकृष्ण ने अर्जुन से कहा।
उत्तर:

गीतायाम् श्रीकृष्णाः अर्जुनम् अकथयत्।

(iv) वह प्रियजन की रुग्णता में सेवा करके प्रसन्न होता है।
उत्तर:

सः प्रियजनस्य रुग्णतायाम् सेवित्वा प्रसीदति।

प्रश्न 9.
प्रदत्तानि वाक्यानि शुद्धानि कृत्वा पुनः लिखत

(i) मूर्खाः जनाः दुखं दृष्ट्वा केवलं हाहाकारं करोति।
उत्तर:

मूर्खाः जनाः दु:खं दृष्ट्वा केवलं हाहाकारं कुर्वन्ति।

(ii) दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।
उत्तर:

सर्वेषाम् दु:खानाम् अभावस्य कृते मनसः प्रसन्नता अत्यावश्यकी वर्तते।

(iii) रोगं समस्यां वा दृष्ट्वा तस्य समाधानं कुरु।
उत्तर:

रोगं समस्यां वा दृष्ट्वा तस्याः समाधानं कुरु।

(iv) विषादः कदापि न कर्तव्यः।
उत्तर:

विषादः कदापि न कर्त्तव्यः।

NCERT 10th Sanskrit (Bhav) Chapter 13, class 10 Sanskrit (Bhav) Chapter 13 solutions

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13: Download PDF

NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13-मिश्रिताभ्यासः

Download PDF: NCERT Solutions for Class 10 Sanskrit (Bhav): Chapter 13-मिश्रिताभ्यासः PDF

Chapterwise NCERT Solutions for Class 10 Sanskrit (Bhav) :

About NCERT

The National Council of Educational Research and Training is an autonomous organization of the Government of India which was established in 1961 as a literary, scientific, and charitable Society under the Societies Registration Act. Its headquarters are located at Sri Aurbindo Marg in New Delhi. Visit the Official NCERT website to learn more.

Read More

NCERT Solutions for All Classes (1 to 12)

Jump to free NCERT solutions, chapter Q&A, and textbooks for any grade

Popular Reference Solutions & Help Books

Step-by-step solutions for Mathematics and Science reference textbooks

Latest School & Board Updates

Real-time date sheets, admit cards, syllabus revisions, and exam notifications

Haryana Board Senior Secondary (12th) 20 Feb 2025
HBSE 12th 2024 Question Papers
View
Haryana Board Secondary (10th) 20 Feb 2025
HBSE 10th 2024 Question Papers
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 9th Model Papers 2025
View
Haryana Board Senior Secondary (12th) 19 Feb 2025
HBSE 11th Model Papers 2025
View
State Board Primary (1-5) 15 Feb 2025
BHU SET 2025 Application Form
View

Frequently Asked Questions

Common queries regarding NCERT textbook solutions & school curriculum

Are these NCERT solutions available 100% free of charge?

Yes. All NCERT solutions, chapter questions, textbook exercises, and download guides published on IndCareer Schools are completely free for students, parents, and educators without requiring any paid subscription or login.

Which subjects are covered for Class 10?

For Class 1, comprehensive NCERT solutions are provided for Mathematics (Math-Magic / गणित का जादू), English (Marigold & Mridang), and Hindi (Rimjhim / रिमझिम), alongside printable worksheets and textbook PDF downloads.

Are these solutions updated according to the latest CBSE / NCERT guidelines?

Yes. Our academic editorial team continually aligns all solutions and textbook references with the latest National Education Policy (NEP) and the rationalized curriculum issued by NCERT and the Central Board of Secondary Education (CBSE).

How can I download the official NCERT books in PDF format?

You can access official NCERT textbooks by clicking on the textbook links provided in the study content section above or by visiting the Class 1 to 12 NCERT Directory on IndCareer Schools.